उत्तराखण्डकण्वनगरीकोटद्वार

कण्वनगरीकोटद्वारे सार्थकयोगशालायां २ फरवरीमासे योगकक्षाणां शुभारम्भः।

प्रातः ६ वादनतः ७ वादनपर्यन्तम् अपराह्णे च ४ वादनतः ५ वादनपर्यन्तम् तथा सायं ५ वादनतः ६ वादनपर्यन्तम् संचाल्यते कक्षा: ।

कोटद्वारम्। स्वास्थ्यसंवर्धनस्य, शारीरिकसौष्ठवस्य, योगासनक्रीडाप्रशिक्षणस्य च प्रवर्धनाय सार्थकयोगशालायाम् आगामी द्वितीयफरवरीदिनाङ्कात् नियमिताः योगकक्षाः आरभ्यन्ते। योगकक्षाः प्रतिदिनं त्रिषु सत्रेषु सञ्चाल्यन्ते। प्रातःकाले प्रातः ६ वादनतः ७ वादनपर्यन्तम् एकं सत्रं भविष्यति। अपराह्णे च सायं ४ वादनतः ५ वादनपर्यन्तम् तथा सायं ५ वादनतः ६ वादनपर्यन्तम् द्वे सत्रे आयोजिते भविष्यतः।

सर्वेषु सत्रेषु शारीरिकस्वास्थ्यविकासः, स्फूर्तिरस्ति, योगासनक्रीडाप्रशिक्षणं च प्रमुखतया शिक्ष्यते। योगशालाप्रशासनद्वारा निर्दिष्टं यत् सर्वेषां प्रतिभागिनां कृते योगवेषः अनिवार्यः अस्ति। प्रत्येकः अभ्यासार्थी स्वकीयं योगासनकटं जलपात्रं च आनयेत्, अभ्यासोत्तरं च स्वसमीपे नयेत्। योगासनशुद्धता, अनुशासनपालनं, समयपालनं च अनिवार्यं भवति। बालानां कृते अभिभावकैः समये एव आगमनं गमनं च कर्तव्यम्।

योगकक्षाप्रवेशाय पञ्जीकरणप्रपत्रं स्वघोषणापत्रं च अनिवार्यम् इति सूचितम्। शुल्कसम्बन्धे सूच्यते यत् सर्वैः विद्यार्थिभिः प्रत्येकमासस्य पञ्चमदिनाङ्कात् पूर्वमेव शुल्कनिक्षेपणं करणीयम्, येन योगशालायाः सुचारुकार्यप्रणाली सुनिश्चिता भवेत्। सार्थकयोगशाला शिवपुरे शिब्बूनगरक्षेत्रे च स्थिता अस्ति। अधिकसूचनार्थं पञ्जीकरणार्थं च इच्छुकाः –
6396911418, 88690 04119, 97603 40378 इति दूरभाषसंख्याभिः सम्पर्कं कर्तुं शक्नुवन्ति।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button