उत्तराखण्डहरिद्वार

खेलमहाकुम्भे प्रतियोगितायां रजतपदकं प्राप्तवन्तौ — सार्थकः कण्डवालः तथा सागरः

कांस्यपदकं प्राप्तवन्तः — मेघा, प्रियांशी, आराध्यः, वैष्णवी, देवांशः शाहः तथा दर्शः शुण्डली

हरिद्वारम्। खेलमहाकुम्भस्य मुख्यमन्त्रिणः पदकस्पर्धाया: अन्तर्गतं हरिद्वारे आयोजितायां राज्यस्तरीयायां योगासनप्रतियोगितायां पौड़ी-गढ़वालजनपदस्य क्रीडकैः उत्कृष्टं प्रदर्शनं कृत्वा जनपदस्य नाम गौरवेन अलङ्कृतम्।

प्रतियोगितायां रजतपदकं प्राप्तवन्तौ — सार्थकः कण्डवालः तथा सागरः। तथैव कांस्यपदकं प्राप्तवन्तः — मेघा, प्रियांशी, आराध्यः, वैष्णवी, देवांशः शाहः तथा दर्शः शुण्डली इति क्रीडकाः।

एषा उपलब्धिः क्रीडकेषां कठोरपरिश्रमस्य, अनुशासनस्य, निरन्तराभ्यासस्य च प्रतिफलरूपा अस्ति। योगविद्यायां तेषां निष्ठा समर्पणं च एतस्मिन् प्रशंसनीये सफलतायां स्पष्टतया दृष्टिगोचरं जातम्।

राजकीयवरिष्ठमाध्यमिकविद्यालयस्य पौडीजनपदस्य
प्रशिक्षकस्य राकेशकण्डवालस्य मार्गदर्शने विभिन्ना: छात्रा: सर्वोत्कृष्टप्रदर्शने अधुना सर्वत्र संलग्ना: सन्ति। योगासनक्रीडायां पौड़ी-गढ़वालजनपदस्य एतादृशं प्रभावशालीं प्रदर्शनं राज्यस्तरे योगक्रीडायाः उज्ज्वलभविष्यस्य संकेतकं मन्यते। प्रतियोगितायाः समापनावसरे सर्वे विजेतृक्रीडकाः अभिनन्दिताः, तेषां उज्ज्वलभविष्याय च शुभाशयाः

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button