उत्तराखण्डकण्वनगरीकोटद्वारकेरलपौड़ी

सार्थकयोगशालायां ‘वन्दे मातरम्’ योगमयकार्यक्रमस्य भव्यं आयोजनम्

कोटद्वारम्। गणतन्त्रदिवसस्य पावनावसरे, २६ जनवरी-सायंकाले, सार्थकयोगशालायां देशस्य वीरसैनिकानां सम्मानार्थं “वन्दे मातरम्” इति शीर्षकेन योगमयः देशभक्तिपूर्णः कार्यक्रमः भव्यतया आयोजितः। अस्य कार्यक्रमस्य मुख्योद्देश्यः योगस्य माध्यमेन राष्ट्रनिर्माणं कर्तुं तथा सैनिकानां प्रति कृतज्ञताभावं प्रकटयितुं आसीत्।

अस्मिन् अवसरे योगसाधकैः उत्साहपूर्वकं सहभागिता कृता। तैः विविधयोगासनानि, सामूहिकयोगप्रदर्शनं तथा देशभक्तिभावेन परिपूर्णाः प्रस्तुतीः प्रदर्शिताः। योगमयप्रस्तुतिभिः उपस्थितैः साधकैः दर्शकैश्च भारतीयसेनायाः शौर्यं, बलिदानं च राष्ट्रसेवां प्रति नमनं कृतम्।

कार्यक्रमकाले सम्पूर्णं वातावरणं देशभक्तिजयघोषै: तथा “वन्दे मातरम्”, “जय हिन्द” इत्युद्घोषैः प्रतिध्वनितम्। आयोजकैः कथितं यत् योगः केवलं शारीरिकस्वास्थ्यं न प्रददाति, अपि तु मानसिकसशक्ततां राष्ट्रप्रेमभावनां च सुदृढीकरोति।

कार्यक्रमस्य संयोजकः श्रीमान् राकेशकण्डवालः, सार्थकयोगशालायाः अध्यक्षा श्रीमती कविता कण्डवालः, प्रशिक्षकाः सोनमरावतः, शुभमरावतः, सन्तोषीरावतः, तथा अभिभावकाः एवं संस्कृतभारत्याः पौड़ीविभागसंयोजकः श्रीमान् कुलदीपमैन्दोला—एते सर्वे समापनावसरे सर्वान् प्रतिभागिनः पदकैः (मेडलैः) सम्मानितवन्तः। ततश्च अभिभावकैः बालकेभ्यः मिष्ठान्नवितरणं कृतं, यत् कार्यक्रमस्य गरिमां सहभागितां च अधिकं शोभितवान्।

अस्मिन् अवसरे “योगेन राष्ट्रनिर्माणम्” तथा “स्वस्थं तनु – सशक्तं मनः” इति सन्देशः जन-जनं प्रति प्रेषितः। अयं कार्यक्रमः उपस्थितेषु सर्वेषु देशप्रेम्णः तथा सामाजिकदायित्वभावनायाः अधिकं प्राबल्यं जनितवान्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button