संस्कृतसम्भाषण-कार्यशालायाः समापनं

खालसा आयुर्वैदिक एवं चिकित्सीयमहाविद्यालय: नंगल कलां, मानसा तथा संस्कृतभारती, पञ्जाबप्रान्तः इत्यनयो: संयुक्ततत्त्वाधाने आयोजितायाः संस्कृतसम्भाषण-कार्यशालायाः अद्य समापनं सञ्जातम्।
समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्वालनेन एवञ्च दीपमन्त्रेण सञ्जातः। कार्यक्रमे छात्रछात्राभिः सरस्वतीवन्दना, सङ्कल्पः, उद्देश्यगीतम्, अनुभवकथनम्, गीतमाध्यमेन वस्तुपरिचयः इत्यादयः प्रस्तुत्यः कृताः।
कार्यक्रमेऽस्मिन् मुख्यवक्तृरूपेण श्रीमान् अजय-आर्य-महोदयः समागतः। महोदयेन संस्कृतं किमर्थं पठामः, ‘आयुर्वेदिक पद्धत्यां वैद्यानां कृते संस्कृतं किमर्थम् आवश्यकम्’, तथा ‘आयुर्वेदस्य सम्यक् ज्ञानं भवितव्यमेव’ विषयेषु विचारा: समुपस्थापिता: ।
कार्यक्रमेऽस्मिन् मुख्यतिथिः डॉ रविदत्तकौशिकमहोदयेन उक्तं यत् संस्कृतभाषा संस्कारमयी भाषा अस्ति, तथा अस्माकं सर्वेsपि ग्रन्थाः अस्यां भाषायां लिखिताः सन्ति।
सम्भाषणशिबिरस्य सञ्चलानं संस्कृतभारत्याः कार्यकत्रा गगनदीपपाठकेन कृतम् । कार्यक्रमेऽस्मिन् ५० प्रशिक्षुकाः भागं गृहीतवन्तः ।अस्मिन्नवसरे प्राचार्यया डॉ. मीनाक्षी अरोडा महोदयया आगतानाम् अतिथीनाम् स्मृतिचिह्नेन स्वागतं विहितम् । कार्यक्रमस्य सञ्चालनं डॉ. आशिषेण कृतम् । कार्यक्रमेऽस्मिन् उपप्राचार्य: डॉ. नवीन:, श्री मक्खनलाल: सिंगला, संस्कृतप्राध्यापिका डॉ मञ्जुबजाज: , डॉ. मुनीश: महोदयया सह अन्याः अध्यापकाः गणमान्यसदस्याः च समुपस्थिताः आसन्।







