उत्तराखण्डदेहरादूनसंस्कृत भारती

संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति – गौरवशास्त्री प्रान्तसङ्घटनमन्त्री

देहरादूनम् , १३ अगस्तमासः २०२५। संस्कृतभारती देहरादूनम् इत्यनेन ‘गेहे-गेहे संस्कृतम्’ इत्यभियानान्तर्गते जनकल्याणन्यासे, सुमननगरे, धर्मपुरे, देहरादूनमहानगरे अद्य सायं ४:३० तः ७:०० पर्यन्तं महता वैभवेन संस्कृतसप्ताहसमारोपः सम्पादितः। कार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्वलनेन, आयुर्वेदमहाविद्यालयस्य हर्रावालादेहरादूनस्थितस्य छात्रच्छात्राभिः—प्रीति, आयुषी, सृष्टि, सिमरन, खुशी, शैलजा—इत्येताभिः प्रस्तुतया सरस्वतीवन्दनया च अभवत्।

ध्येयमन्त्रपाठं डॉ बीना पुरोहितः कृतवती। कार्यक्रमस्य द्रष्टा, प्रष्टा, स्रष्टा च संस्कृतभारतीदेहरादूनस्य जनपदमन्त्री डॉ. प्रदीपः सेमवालः आसीत्, येन अतिथिपरिचयः स्वागतभाषणं च प्रस्तुतम्। तेन उक्तं यत् “संस्कृतस्य जन-जन-पर्यन्तं प्रसारः अत्यावश्यकः, एषा भाषा अस्माकं संस्कृतेः जीवनप्रवाहः, अनया विना राष्ट्रियास्मिता अपूर्णा भवति।”

विशिष्टः अतिथिः समाजसेवी एल्. एल्. पाल् इत्येषो भाषायाः सामाजिकचेतनायां भूमिकां प्रकाशयन् उक्तवान् यत् “संस्कृतं केवलं भाषा नास्ति, अपितु जीवनं नैतिकमूल्यैः समृद्धीकर्तुं साधनम्। एतेषु आयोजनेषु नूतनसंततिमध्ये भाषां प्रति आत्मीयभावना जागर्ति।”

सारस्वतातिथिः डॉ. नवीनः जोशी (प्राचार्यः, श्रीमहादेवगिरिः संस्कृतमहाविद्यालयः, हल्द्वानी, पूर्वः शिक्षकसंघप्रबोधनप्रमुखः) अवदत् यत् “संस्कृतसाहित्ये निहितं ज्ञानं विज्ञानं च अद्यापि आधुनिकसमाजाय पथप्रदर्शनं करोति। विद्यार्थिषु मम आग्रहः यत् ते संस्कृतं केवलं विषयत्वेन न स्वीकुर्वन्तु, अपि तु जीवनशैलीत्वेन चिन्वन्तु।

मुख्यः अतिथिः श्री गौरवः शास्त्री (प्रान्तसंघटनमन्त्री, उत्तराञ्चलम्) संस्कृतस्य पुनरुत्थानं राष्ट्रस्य सांस्कृतिकपुनरुत्थानेन सम्बद्धम् अकरोत्। सः अवदत् यद् ‘गेहे-गेहे संस्कृतम्’ अभियानस्य उद्देश्यं प्रत्येकं गृहं संस्कृतसंवादस्य केन्द्रं कर्तुम् अस्ति, येन सामाजिकैक्यं सांस्कृतिकगौरवञ्च उभयं सुदृढीभवेत्, यतः संस्कृतम् अस्माकम् आनुवंशिकसूत्रेषु निहितम् अस्ति।

अतिविशिष्टः अतिथिः आचार्यः विजयेन्द्रप्रसादः ममगाईं (अध्यक्षः, उत्तराखण्डविद्वत्सभा) अवदत् यत् “संस्कृतं केवलं भारतस्य न, अपि तु सम्पूर्णमानवजातेः निक्षेपः अस्ति। अस्याः माध्यमेन विश्वबन्धुत्वस्य वैचारिकैक्यस्य च सन्देशः प्रसारितुं शक्यते। उत्तराखण्डविद्वत्सभायाः ध्येयवाक्यमपि ‘वसुधैव कुटुम्बकम्’ इति अस्ति।”

अध्यक्षीयभाषणं डॉ. रामभूषणविजल्वाणः (जिलाध्यक्षः, संस्कृतभारती देहरादूनम्) दत्तवान्। तेन विदुषा भाषितं यद् एतत् आयोजनं संस्कृतभाषायाः संरक्षणाय संवर्धनाय प्रचाराय च समाजम् एकत्र समाहर्तुं प्रयासः अस्ति।” सः सर्वान् आगृहीतवान् यत् ते स्वगृहे प्रतिदिनं संस्कृतभाषणस्य परम्परां प्रारभन्ताम्।
मञ्चस्य कुशलं सञ्चालनं पूर्वः पूर्णकालिकः विशालः प्रसादः भट्टः अकार्षीत्। संस्कृतसप्ताहस्य आयोजनाय तस्य अनुपमा भूमिका अवर्तत। धन्यवादज्ञापनं डॉ. नवीनः जसोला (सहविभागसंयोजकः), मार्गदर्शनं योगेशः कुकरेती (गीताशिक्षणप्रमुखः), चित्रांकनं डॉ. आनन्दमोहनः जोशी (खण्डसंयोजकः, डोईवाला) च कृतवन्तः।

सांस्कृतिककार्यक्रमाणां शृङ्खला अपि सह प्रवहिता। वैद्यकीयविद्यार्थिभिः अक्षय, भूमिका, प्रेरणा, दीक्षा, सृष्टि च इत्येभिः स्वागतगीतं प्रस्तुतम्। श्रद्धा नाम्नी भावपूर्णं नृत्यम् अकरोत्। वैष्णव्याः (डॉ. बीना पुरोहितस्य पुत्री) नृत्यं दर्शकेषु अतीव प्रियम् अवर्तत। हिमालयीयचिकित्सामहाविद्यालयस्य फतेहपुर-डोईवाला देहरादूनस्य च विद्यार्थिभिः चंचल, आदर्श, आदित्य, वासुदेव इत्येतैः आकर्षकं नाट्यप्रदर्शनं कृतम्।

सर्वेभ्यः प्रतिभागिभ्यः कार्यकर्त्रा आचार्येण विकासभट्टेन उत्साहवर्धनार्थं लेखनी प्रदत्ता। धरालीआपदायां दिवङ्गतेभ्यश्श्रद्धाञ्जलिं दत्त्वा शान्तिमन्त्रपाठं धीरजः मैठाणी (संपर्कप्रमुखः) विहितवान्। कार्यक्रमे व्यवस्थायां रायपुरखंडसंयोजको नीतीशमैठाणी, पूर्वः सहसपुरखंडसंयोजकः धीरजविष्टः , कार्यकर्ता अजयनौटियालः च सक्रियाः आसन्।

अस्मिन् अवसरे विशेषरूपेण उपस्थिताः आसन् तत्र डॉ. सतीशः नौटियालः, प्रशान्तः कैडियालः, अमेरिका वास्तवः (सॉफ्टवेयरअभियन्ता), हरिदत्तः व्यासः (प्रधानाचार्यः), डॉ. महेशदत्तः उनियालः, राजप्रिन्सः पुण्डीरः (वायुसैन्यनिवृत्तः), सीमा कुकरेती, वन्दना सेमवालः, जीवनलता कैडियालः, सोनाली मैठाणी, मोनिका मैठाणी, आद्विकः मैठाणी, नव्या, नव्यांशः मैठाणी, डॉ. रिंकु च। अयं समारोहः संस्कृतभाषायाः प्रचारप्रसारे एकः महत्वपूर्णः पादः सिद्धः, यस्मिन् सर्वे सक्रियतया सहभागिनोऽभवन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button