अथ कोटद्वारवार्ता संस्कृतसप्ताहस्य सफला परिसमाप्तिः
मालिनीवैलीशिक्षामहाविद्यालये भाषाकार्यशाला च ई-टेक्नोमाइण्डसार्थकयोगशालाद्वारा संस्कृतयोग: समपद्यत

कोटद्वारस्थे मालिन्यास्तटविराजिते मालिनीवैलीशिक्षणमहाविद्यालये संस्कृतभारत्याः कोटद्वारशाखायाः संयुक्ततत्त्वावधाने समायोजितस्य संस्कृतसप्ताहस्य साफल्येन समापनमभवत्॥ यत्र हि मालिन्युपत्यकायां संस्कृतसम्भाषणेन सह अयं सप्ताहः आमानितः तत्रैव ईटेक्नोमाइण्ड्सार्थकयोगशालाद्वारा (Etechnomind Sarthak Yogashala) सद्भावनापरिसरे शिब्बूनगरे शिवपुरे बालासौडे परमार्थवैदिकगुरुकुलकण्वाश्रमे उमरावनगरे च संस्कृतमययोगकार्यक्रमाः अपि प्रवृत्ताः॥ तत्र रावतसोनमा रावतशुभमः कण्डवालसार्थकः राणापूजा सन्तोषी च मार्गदर्शकस्य कण्डवालराकेशस्य निर्देशने योगमाध्यमेन संस्कृतोत्सवम् अमन्यन्त॥
षडगस्तदिनाङ्कात् आरब्धायां अस्यां भाषाकार्यशालायां प्रतिभागिभिः सरलेन संस्कृतेन वार्तालापं कर्तुं शिक्षितम्॥
समापनकार्यक्रमे प्रतिभागिनः स्वानुभवान् अवर्णयन् योगछात्राश्च योगनृत्यादीनां मनोहारि प्रदर्शनमकुर्वन्॥ विद्वज्जनैः मालिन्याः उद्गमस्थलात् आरभ्य कण्वाश्रमं यावत् व्याप्तस्य संस्कृतभाषायाः गौरवपूर्णः इतिहासः प्रकाशितः॥ अस्मिन्नेव क्षेत्रे महाकविना कालिदासेन विरचिते विश्वविश्रुते अभिज्ञानशाकुन्तलनाटके पात्रैः व्यवहृतस्य संस्कृतस्य महत्त्वमपि वर्णितम्॥
अस्मिन् कार्यक्रमे संस्कृतभारत्याः कोटद्वारनगराध्यक्षः डाक्टर् कुक्रेतिरमाकान्तः डाक्टर् मैन्दोलाकुलदीपः डाक्टर् जोशीप्रभा सुन्दरियालमुकेशः कण्डवालरामभरोसा नैथानीप्रकाशचन्द्रः डाक्टर् शर्मानुरागः नौटियालसत्यप्रकाशः तस्य धर्मपत्नी श्रीमती नौटियालवर्या नौटियालमनमोहनः कालामणमोहनः श्वेता बिष्टाञ्चलवर्या प्रियङ्का रावतसोनमा नैथानीहितेन्द्रः योगछात्राः तेषामभिभावकाश्च संस्कृतस्य प्रचाराय प्रसाराय च दृढसङ्कल्पं स्वीकृतवन्तः॥ कार्यक्रमस्य कुशलं सञ्चालनं मुख्यशिक्षकेण मैन्दोलाकुलदीपेन कृतम् ॥
अस्मिन्नवसरे साहित्याञ्चलसंस्थाया अध्यक्षो नैथानीप्रकाशचन्द्रः अस्माभिः स्वसंस्कृतेर्देववाण्याश्च सर्वथा अनुकरणं कर्तव्यमिति उपदिष्टवान् । तथैव गेप्ससंस्थायाः कोषाध्यक्षः कालामन्मोहनः संस्कृतभाषां सर्वक्षेत्रगामिनीं सर्वोपयोगिनीञ्च भाषां प्रत्यपादयत् । देवभूमि-उत्कर्ष-सेवा-समिति-संस्थापकः कण्डवालरामभरोसा तु ग्रामे ग्रामे अस्माकं व्यवहारभाषा संस्कृतमेवासीदिति दृढमुक्तवान् । परमार्थवैदिकगुरुकुलस्याचार्यो नौटियालमन्मोहनः कण्वाश्रमसंस्कृतेः संरक्षकान् जनान् विश्वामित्रकण्वमहर्षिसदृशान् हितैषिणोऽवर्णयत् ॥
कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण समुपस्थितो राजकीयमहाविद्यालयस्य भाबर-कोटद्वारस्थस्य वाणिज्यप्राध्यापकः डा. शर्मानुरागः उदघोषयद् यत् वयमद्यापि वेदसंस्कृतप्रवाहे निहितं ज्ञानविज्ञानं भृशं जानीमः । संस्कृतभारत्या चेदं संस्कृतं सरलीकृत्य सरसं विधाय च लोकान् संस्कृतसम्भाषणे प्रवर्तितमिति संस्थायाः कार्यमश्लाघत । संस्कृतभारत्या नगराध्यक्षो डा. कुकरेतीरमाकान्तः न्यगदद् यद् मालिन्यास्तटे प्रवहन्नयं संस्कृतप्रवाहः कण्वाश्रमं स्मारयति । सप्तदिनेषु अस्माभिर्विविधाः कार्यकलापाः संस्कृतसम्भाषणेनैव प्रारब्धाः । उपनयनं रक्षाबन्धनं शोभायात्रा चेति सर्वेषु कार्यक्रमेषु संस्कृतध्वनिभिः श्लोकैर्मन्त्रैर्जयघोषैश्च कण्वाश्रमपरिसरः प्रतिध्वनितः कृतः ॥
साप्ताहिक्यां भाषाकार्यशालायां संस्थानिदेशकेन श्रीमता रावतयोगम्बरसिंहेन सर्वेषां मनोबलं वर्धयता स्वयं संस्कृतसंवादे भागो गृहीतः । तत्र सहयोगिशिक्षिका कार्यशालाया आयोजिका च रावतश्वेता संस्कृतसप्ताहमिमं सरसं विधातुं मुख्यां भूमिकामवहत् । संस्कृते स्वर्णपदकविभूषिता नेट्-सेट्-परीक्षासूत्तीर्णा च बिष्टाञ्चल नाम्नी संस्कृतसम्भाषणस्य प्रभूतम् अभ्यासमकारयत् । अपि च प्रियङ्का सुन्दरियालमुकेशः खर्कवालप्रभाप्रभृतिभिः संस्कृतगीतानि श्लोकाः स्वानुभवाश्च सभामध्ये प्रस्तुताः ॥
अत्रैव ई-टेक्नोमाइण्ड्-सार्थक-योगशाला-कोटद्वारतः मुख्यमार्गदर्शकस्य राइकाकाण्डाखालसम्बद्धस्य कण्डवालराकेशस्य निर्देशनेन शिक्षिकया रावतसोनमया योगप्रस्तुतिरपि समायोजिता । तत्र सौम्या संस्कृतिर्याशवी आद्रिका आरवी काश्वी आराध्या आद्या स्वर्णिका समृद्धिप्रभृतिभिर्बालिकाभिः चटका चटकेति शक्तिसम्भृतं युक्तिसम्भृतमिति च संस्कृतगीतयोर्योगसमन्वितं प्रदर्शनं कृतम् । अन्ते च मुख्यातिथिना सर्वेभ्यः प्रतिभागिभ्यः पदकं प्रदाय सम्माननं विहितम् ॥