कण्वनगरीकोटद्वार

क्रीडाङ्गणधूलित: राष्ट्रियस्तरपर्यन्तम्— कोटद्वारस्य “यष्टि-वीराङ्गनाः” अधुना रांची-नगरे स्वकौशलं प्रदर्शयिष्यन्ति!

कोटद्वारं। इतिहासः साक्षी अस्ति यत् यदा-यदा पर्वतीयप्रदेशस्य कन्याः स्वशक्तेः परिचयं कृतवत्यः, तदा जगत् नत्वा ताः अभिवन्दितवान्। कोटद्वारस्य मोटाढाक-लघुक्रीडाङ्गणस्य साधारणं भूमिखण्डम् अद्य तादृशं चमत्कारं कृतवान्, येन समग्रं उत्तराखण्डं गर्वेण हर्षोन्मत्तं जातम्। षट् कन्याः— एकलक्ष्यभावं हृदि पदं निधाय राष्ट्रस्तरीयदले धैर्येण प्रवेशः कृतः अधुना समग्रदेशस्य दृष्टिः एतासु एव! घमण्डपुरस्थितस्य जी.जी.आई.सी. विद्यालयस्य षट् प्रतिभाशालिन्यः बालिकाः स्वपरिश्रमबलात् उत्तराखण्डस्य राष्ट्रिय-अण्डर–१७ हॉकी-दलस्य द्वारं भित्त्वा स्वाधिकारं प्राप्तवत्यः।

एताः कन्याः आगामि २४ जनवरीतः ४ फरवरीपर्यन्तं झारखण्डराज्यस्य रांची-नगरे उत्तराखण्डस्य मानं, आशां च प्रतिनिधित्वं कृत्वा क्रीडाङ्गणे स्वजीवनं समर्पयिष्यन्ति।
एतासां हस्तेषु विजयस्य दीप ज्योति: ।

एतानि नामानि साक्ष्यं ददति यत् सिंहिन्यः केवलं वनेषु न, अपि तु क्रीडाङ्गणेऽपि राज्यं कुर्वन्ति— निकिता (श्री भूमिप्रकाश- भट्टस्य पुत्री) अक्षिता नेगी (श्री रतनसिंह-नेगीस्य पुत्री)
अंकिता रावत: (श्री सुनीलसिंह-रावतस्य पुत्री) गुंजन (श्री शिवकुमारस्य पुत्री) पीहू रावत: (श्री जयपालसिंह-रावतस्य पुत्री) मोटाढाक-लघुक्रीडाङ्गणस्य हॉकी-प्रशिक्षकस्य तेजेन्द्र-रावतस्य सान्निध्ये कठोरपरिश्रमेन, निष्ठया च, क्रीडायाः सूक्ष्मताः अवगम्य सततं कौशलवर्धनाय संघर्षशीलः सः आसीत्। अद्य तस्य धैर्यस्य, लग्नस्य च फलरूपेण कोटद्वारस्य बालिकाः राष्ट्रस्तरे स्वप्रतिभां प्रदर्शयितुं सिद्धाः सन्ति।

यदा जनाः शय्यायां उष्णतां अनुभवन्ति स्म, तदा तीव्रशीतकाले तुषारकणानां मध्ये प्रशिक्षकः तेजेन्द्र-रावतः एताः कन्याः भावियुद्धाय सज्जीकरोति स्म। गतयोः द्वयोः वर्षयोः प्रत्येकः क्षणः, प्रत्येकं अश्रु, प्रत्येकः स्वेदबिन्दुः अद्य “नेशनल-जर्सी” इत्यस्य महिमायाः कारणं जातम्। एषा सफलता तेषां सर्वेषां निन्दानां, बाधानां च प्रहारः अस्ति ये कन्यापादेषु शृङ्खलाः बद्धुं इच्छन्ति।

प्रसारमाध्यमप्रभारी शिवम-नेगीस्य प्रेरणादायक: सन्देशः:
“एताः कन्याः केवलं क्रीडनाय न गच्छन्ति, अपि तु उत्तराखण्डस्य स्वाभिमानस्य ध्वजं रोपयितुं प्रस्थिताः। एतासां समीपे सौविध्यप्रासादाः न आसन्, किन्तु एतासां हृदये तादृशं साहसं अस्ति यत् हिमालयादपि उन्नतम्। रांची-भूमिः साक्षी भविष्यति यत् यदा कोटद्वारस्य कन्याः क्रीडाङ्गणे अवतरन्ति, तदा विरोधिनां पादाः भूमिं त्यजन्ति। एष: विजयः तासां सर्वासां कन्यानां कृते आह्वानम् अस्ति याः स्वप्नदर्शनात् भीताः सन्ति। उत्तिष्ठत! पश्यत! भवत्यः स्वसाराः जगत् जेतुं प्रस्थिताः सन्ति।”
कोटद्वारस्य हुंकारः— ‘विजयी भव’ । समग्रं नगरम् अद्य एकं कुटुम्बं जातम्। कोटद्वारस्य प्रत्येकः पन्थाः एतासां कन्यानां विजयार्थं प्रार्थनाभिः निनादति। क्रीडासङ्घटनानि गर्वेण अवदन्—“कन्याः, गच्छत! तिरङ्गस्य गौरवं वर्धयत। वयं भवतां विजयस्य स्वागताय पलकान् विस्तारितवन्तः स्थिताः स्मः।”हुंकार: अस्माकं, विजयं भवताम्!

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button