कण्वनगरीकोटद्वार

आकल्पं तव राजतां महिमता मातर्वयं नश्वराः॥ अमरवीरस्य गोलिकाचालकस्य स्वर्गतस्य रावतमनदीपसिंहस्य स्मरणे विद्यामन्दिरेण श्रद्धाञ्जलिः समर्पिता

कण्वनगरीजानकीनगरे स्थिते शर्मरितेशसरस्वतीविद्यामन्दिरनामके अन्तर्महाविद्यालये हरितसेनादेवभूमिःकोटद्वारसंस्थया भारतमातुर्वीरसुतस्य अमरहुतात्मनो गोलिकाचालकस्य स्वर्गतस्य रावतमनदीपसिंहस्य सप्तम्यां पुण्यतिथौ श्रद्धाञ्जलिसमारोहः समायोजितः। कार्यक्रमस्य संयोजकः बलोदिरोहितः असूचयद् यद् अद्य देशार्थं प्राणान् समर्पितवतः कोटद्वारनगरस्य वीरसूनोः गोलिकाचालकस्य रावतमनदीपसिंहस्य हुतात्मदिवसे श्रद्धाञ्जलि अर्प्यते।

कार्यक्रमस्य शुभारम्भे हुतात्मनो माता देवीसुमा प्रधानाचार्यः कुकरेतिमनोजः उपप्रधानाचार्यः कोटनालाऽनिलः समितेरुपाध्यक्षा शर्ममीनाक्षी हरितसेनाध्यक्षश्च नेगिशिवमः भारतमातुस्तथा वीरमनदीपस्य चित्रपटसमक्षं दीपं प्राज्वालयन् पुष्पाणि चार्पयन्। तदनन्तरम् आचार्येण बलोदिरोहितेन वीरस्य जीवनवृत्तान्तः सर्वेषां पुरस्तात् प्रास्तौत्।

अथ विद्यालयस्य प्रधानाचार्यः कुकरेतिमनोजः छात्रान् सम्बोधयन् अवदत्। यदद्यैव दिने मध्यरात्रौ जम्बूराज्ये बाण्डीपुरस्य गुरेजक्षेत्रे आतङ्कवादिभिः सह युद्ध्यमानः भारतमातुः रक्षणार्थम् अमरवीरः रावतमनदीपसिंहः शौर्येण नियन्त्रणरेखायाम् आतङ्किनाम् अनुप्रवेशप्रयासं विफलमकरोत् द्वौ च आतङ्कवादिनौ निजघान। अस्मिन्नेव वीरकर्मणि सः भारतमातुः चरणकमलयोः स्वप्राणान् समर्पितवान्। प्रधानाचार्यः अमुं दिवसं विद्यालयस्य वार्षिककार्ययोजनायां समावेशयितुं प्रतिवर्षमस्मिन् दिने विविधस्तरीयाः स्पर्धाः आयोजयितुं च सर्वसमक्षं घोषयामास।

ततः परं हरितसेनादेवभूमेः अध्यक्षो नेगिशिवमः आगामियोजनानुसारं विद्यालये चित्रकलास्पर्धायाः आयोजनविषये सूचनां प्राददात्। अस्मिन्नवसरे विद्यालयस्य सर्वे आचार्याश्च तथा च हरितसेनायाः महासचिवः नेग्युत्कर्षः कोषाध्यक्षः धूलियासौरभः स्वयंसेवकाः कोह्लिसुशान्तः पन्तरूपेशः रावतनेन्सी रावत-ऋतुः नेगिशालिनी चौधरी ईशा इत्यादयः उपस्थिता आसन।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button