कण्वनगरे मुष्टिप्रहारकाणां निनादः : ‘रिङ्गस्य विजेतृशूरै:’ राज्यस्पर्धा जिता, राष्ट्रियस्तरे विजयध्वजं वहिष्यन्ति।
बालकवर्गे पौड़ीगढवालदलम्, बालिकावर्गे पिथौरागढ-आवास-दलं च राज्यस्पर्धां गतौ।

कोटद्वारम् । अष्टम-उत्तराखण्ड-राज्य-कनिष्ठ-अन्तरायु– 17-मुष्टि-प्रतियोगितायाः अन्तिमचक्रम् अत्यन्तं रोमाञ्चकं आसीत्। बालिकावर्गे पिथौरागढ-दलम्, बालकवर्गे च पौड़ीगढवाल-दलम् “राज्यस्पर्धा”-पदवीं प्राप्तवन्तौ।
कोटद्वारस्य ऐतिहासिकायां भूमौ आयोजितायाम् अष्टम्यां राज्यस्तरीया कनिष्ठ-मुष्टिका-प्रतियोगितायाः समापनं महायुद्धस्य गौरवपूर्ण-समाप्तिमिव अभवत्।
उत्तराखण्ड-मुष्टिका-संघस्य तत्त्वावधाने आयोजिते अस्मिन् “मुष्टिका-महाकुम्भे” अन्तिमदिने रिङ्गमध्ये शौर्यतकनीके: साहसस्य च अद्भुतः समन्वयः दृष्टः। अनेन सिद्धं जातं यत् देवभूमेः मुष्टिप्रहारका: इदानीं राष्ट्रियमञ्चे महाविजयाय सिद्धाः सन्ति। रिङ्गस्य ‘श्रेष्ठ-मुष्टिकायां’ : अभिषेकः तथा भूमिका
अन्तिमदिने चतुर्विंशतिः उच्च-ऊर्जायुक्ताः मुष्टिकास्पर्धां सम्पादितवन्तौ। पौड़ी-जनपदस्य अभिषेकः तथा बागेश्वर-जनपदस्य भूमिका बसेड़ा उत्कृष्ट-प्रदर्शनस्य कारणात् “श्रेष्ठ-मुष्टिकाप्रहारकौ”-उपाधिभ्यां सम्मानितौ। तथैव अंशिका आर्या (पिथौरागढत:) तथा प्रत्यूषनेगी (रुद्रप्रयागत:) “अत्यन्त-आशाजनक-मुष्टिकाप्रहारक”-रूपेण चयनितौ, यौ अस्य क्रीडायाः उदयमान-तारकौ स्तः।

स्पर्धायां-पदक-तालिका : पर्वतीय-प्रतिभानां प्रभुत्वे
त्रयोदश भारवर्गेषु -युववीरप्रहारकानां तथा कौशलपूर्ण-तकनीक्याः अद्भुतः संगमः दृष्टः। परिणामैः स्पष्टं जातं यत् मुष्टिप्रहार-कौशलस्य क्षेत्रे पर्वतीय-जनपदानां विशेषं प्रभुत्वम् अस्ति। बालिकावर्गे : पिथौरागढ-जनपदस्य बालिकाभिः आक्रामक-तकनीकया रिङ्गे स्वामित्वं स्थापितम्। माया राय, गोदावरी, दिया कठैत, रिया जोशी तथा रिया तोलिया स्वस्व भारवर्गेषु राज्यचैम्पियनाः अभवन्। पिथौरागढ-हॉस्टल-दलम् समग्र-चैम्पियनशिपं जितवत्, नैनीताल-दलम् द्वितीयं, चम्पावत-दलम् तृतीयं स्थानं प्राप्तवन्ति। बालकवर्गे अत्र पौड़ी-जनपदस्य एकछत्र-राज्यम् आसीत्। धर्मेन्द्रः, विशालः, अंशवीरः, अभिषेकः, लक्की तथा प्रत्यूषः स्वर्णपदकानि जित्वा पौड़ी-दलम् स्पर्धाविजयं कृतवन्तः। साई-काशीपुर-दलम् द्वितीयं, स्पोर्ट्स-कॉलेज-पिथौरागढ-दलमिति तृतीयं स्थानं प्राप्तवन्त: ।
विधानसभाध्यक्षया आशीर्वचनम् अंत्र सर्वै: प्राप्तम्।मुख्य-अतिथिरूपेण विधानसभाध्यक्षया श्रीमत्याः ऋतुखण्डूरीद्वारा विजेतृभ्यः पदकानि प्रदत्तानि। तया भावपूर्णे भाषणे उक्तम्—“एते मुष्टिप्रहारका: केवलं पदकाय न, अपि तु देवभूमेः गौरवार्थं प्रहारयन्ति। अयं रिङ्गः तान् हीरकान् घर्षयति ये भविष्ये ओलम्पिके त्रिरङ्गं प्रसार्य सपाद-शत-कोटि-भारतीयानां स्वप्नं साकारयिष्यन्ति।”
क्रीडाजगतः प्रतिष्ठितानां समागमनम्
अस्मिन् महाकुम्भे अन्तरराष्ट्रीय-स्तरस्य क्रीडादिग्गजानां समागमनम् अभवत्। पूर्व-एशियन-पदक-विजेता कैप्टन् देवीचन्दः, अन्तखराष्ट्रिय-प्रशिक्षकः डी.सी. भट्टः, अन्ताराष्ट्रीय-निर्णायक: देवेंद्रसिंहजीना तथा जोगेंद्रसिंहबोरा इत्यादयः विशिष्टाः अतिथयः उपस्थिताः आसन्।
अतिरिक्तं जयवीररावतः (जिला क्रीड़ा अधिकारी), श्यामसिंह: डांगी (क्रीड़ा प्रभारी, स्थलीयम् कोटद्वारम्), राजीवमेहता (सचिव:, एशियन-फेंसिंग-एसोसिएशन्), अजयसिंह: (अध्यक्षः BFI), मुखर्जी निर्वाण: (अध्यक्षः, उत्तराखण्ड-मुष्टिप्रहारक-संघः), गोपालखोलिया (महासचिवः), घनश्यामपुरिया (उपाध्यक्षः), विशालगर्गः, विक्रमनेगी (प्रशिक्षकः), भाभर-मण्डलाध्यक्षः आशीषरावतः, हरिसिंह: पुंडीरः इत्यादयः गणमान्याः जनाः रिङ्गस्य समीपे उपविश्य क्रीडकेभ्यः उत्साहवर्धनं कृतवन्तः।
उत्तराखण्ड-मुष्टिप्रहारक-संघस्य अध्यक्षः मुखर्जी निर्वाणः तथा महासचिवः गोपालखोलिया च आयोजनस्य भव्यतां प्रशंसितवन्तौ। आगामिराष्ट्रियतायां सिद्धता
एतेषां विजेतॄणां मध्ये एव उत्तराखण्डस्य तत् “स्वर्ण-दलं” चयनितं भविष्यति या राष्ट्रिय-प्रतियोगितायां राज्यस्य प्रतिनिधित्वं करिष्यति। आयोजनस्य सफलतायै रितेश: अधिकारी, जगतराणा तथा सम्पूर्ण-आयोजन-समितेः अथक-परिश्रमः प्रशंसनीयः आसीत्।







