उत्तराखण्डकण्वनगरीकोटद्वारपौड़ी

अतीव हर्षोल्लासेन निम्बूचौडक्षेत्रे दियादिव्याङ्गसंस्थायाः प्राङ्गणे स्वातन्त्र्यपर्व समनुष्ठितम्।

देशस्य स्वातंत्र्यप्राप्ते: अवसरे निम्बूचौडक्षेत्रे स्थितायां दियादिव्याङ्गसंस्थायां स्वतन्त्रतादिवसपर्व महता समारोहेण आचरितम्। सर्वप्रथमं मुख्यातिथित्वेन आमन्त्रितैः विद्वद्भिः कुकरेतिरमाकान्तमहोदयैः राष्ट्रध्वजारोहणं कृतम्। तदनन्तरं सर्वैः सह राष्ट्रगानम् उद्घोषश्चाभवत् अथ सांस्कृतिककार्यक्रमः प्रारभत।

कार्यक्रमात् प्राक् संस्थायाः मुख्यसञ्चालिकया श्रीमत्या मलासिकवितया सर्वेषाम् आगन्तुकानां कृते स्वागतवचनानि उक्त्वा आभारः प्रदर्शितः। ततः परं भगवत्याः सरस्वत्याः वन्दनया कार्यक्रमस्य मङ्गलाचरणं सम्पन्नम्। सर्वे दिव्याङ्गाः छात्राः विद्यार्थिन्यश्च परमानन्देन सांस्कृतिककार्यक्रमेषु भागम् अगृह्णन्। तैः प्रस्तूतानि देशभक्तिगीतानि राष्ट्रगाथाः भारतमातुर्वन्दनानि च वीक्ष्य सर्वे गणमान्याः नागरिकाः तेषां कौशलं दृष्ट्वा भृशं प्राशंसन्।

अन्ते मुख्यातिथिना कुकरेतिमहोदयेन स्वकीये उद्बोधने प्रोक्तं यत् अद्यतनं दिनं गर्वस्य आनन्दस्य उत्सवस्य च वर्तते यतो हि वयम् अद्य भारतस्य नवसप्ततितमं स्वतन्त्रतादिवसम् आचरितुम् आत्मभावेन सम्मिलिताः स्मः। अद्यैव पञ्चदशागस्तदिनाङ्के सप्तचत्वारिंशदधिकनवदशशततमे वर्षे सुदीर्घात् कठिनसङ्घर्षात् परं भारतवर्षम् आङ्ग्लशासनात् स्वतन्त्रम् अभवत्। तेन बालकेभ्यः एकं देशभक्तिपूर्णं गीतं श्रावितमपि।

अस्मिन् पवित्रे अवसरे भगिन्या विजयया कुकरेतिरोशिन्या मानस्या पार्वत्या प्रभृतिभिश्चापि कार्यक्रमः सम्बोधितः। सर्वैः उपस्थितैः गणमान्यैः जनैः दिव्यांगैः छात्रैः सह सानन्दं स्वतन्त्रतादिवसः समाचरितः। प्रत्येकजनः अतीवोत्साहितः प्रसन्नमनाश्चासीत्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button