उत्तराखण्ड

आदर्शसंस्कृतग्रामे कोटग्रामे अपि हर्षोल्लासेन आचरितः स्वातन्त्र्यदिवसः उत्तराखण्डः जातः संस्कृतशिक्षायाः अग्रदूतः

उत्तरकाशी, १५ अगस्तः २०२५ — स्वातन्त्र्यभारते इदानीं प्रथमवारमेव अवसरः प्राप्तः यदा उत्तराखण्डराज्येन संस्कृतशिक्षायै समर्पितां नूतनप्रयासेन सर्वेषु जनपदेषु एकैकं ग्रामं आदर्शसंस्कृतग्राम इति घोषितम्। एषा घोषणा उत्तराखण्डस्य माननीयमुख्यमन्त्रिणा श्रीपुष्करसिंहधामीमहाभागेन १० अगस्ते आभासीमाध्यमेन कृता, यस्मिन् सर्वेषां चयनितग्रामाणां विधिवत् उद्घाटनम् अपि सम्पन्नम्।

एषः प्रयासः राज्यसरकारस्य भारतीयसंस्कृतिकमूल्यानां संरक्षणे संस्कृतभाषायाश्च प्रचारप्रसारे ऐतिहासिकः चरणः मन्यते।

ग्रामे स्वातन्त्र्यदिवसस्यावसरे प्रतिकूलवातावरणेऽपि ग्रामवासिनः उत्साहपूर्वकं भागं गृह्णन्तः हर्षोल्लासेन त्रिरङ्गध्वजं फहरितवन्तः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण संस्कृतशिक्षायाः सहायकनिर्देशकः डॉ॰ पूर्णानन्दभट्टः उपस्थितः स्वीयउद्बोधने सः अवदत् — “संस्कृतविना अस्माकं संस्कृति रक्षणं न शक्यते। अतः सर्वे ग्रामवासी मिलित्वा प्रयत्नं कुर्वन्तु।”

अध्यक्षरूपेण ग्रामप्रधाना श्रीमतीसंगीतारावत उपस्थिताभवत्। सा अवदत् — “यथा स्वातन्त्र्यभारताय सर्वैः स्वस्वयोगदानं कृतम् तथैव संस्कृताय अपि वयं सर्वे कोटग्रामवासिनः प्रतिबद्धाः स्मः।”

कार्यक्रमे ग्रामप्रशिक्षकस्य ग्रामस्य च गण्यमान्यजनानां भाषणैः सांस्कृतिकप्रस्तुतिभिश्च ग्रामवासिनः देशभक्तेः संस्कृतेश्च संगमं प्रदर्शितवन्तः।

कोटग्रामनिवासिनः एतदवसरं न केवलं स्वातन्त्र्यदिवसरूपेण, अपि तु संस्कृतभाषायाः भारतीयसंस्कृतेश्च नवजागरणरूपेण अपि आचरत।

एषः आयोजनः प्रमाणयति यत् राज्यसर्वकारस्य एषः प्रयासः दूरस्थग्रामीणक्षेत्रेष्वपि प्राप्यते, जनसहभागीसहितं संस्कृतं जनजीवनस्य अंगीकृत्य स्थाप्यते च।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button