उत्तराखण्डकण्वनगरीकोटद्वार

“देहः नश्वरः, सेवा च अमृता” — स्वर्गीयस्य कुणालरावतस्य पदचिह्नानुसरणं महान् त्यागः मानवतायाः दीपं प्रज्वालयति

“देहः नश्वरः, सेवा च अमृता” — स्वर्गीयस्य कुणालरावतस्य पदचिह्नानुसरणं महान् त्यागः मानवतायाः दीपं प्रज्वालयति

कोटद्वारम्। रक्तदानात् जीवनरक्षणं, अङ्गदानात् अमरत्वप्राप्तिः — ‘संकल्पदिवसे’ प्रेरणादायकाः विचाराः प्रतिध्वनिताः। यदा कश्चन जनः स्वस्य अस्तित्वावशेषैः अन्येषां उज्ज्वलतां करोति, तदा स न म्रियते, अपि तु “अमरः” भवति। एतत् महान् सामाजिकं आदर्शं सजीवयन् स्वर्गीय-अङ्गदानी कुणालरावतस्य द्वितीय-पुण्यतिथौ “मानवता-संकल्पदिवस-” रूपेण कार्यक्रमः सम्पन्नः।

विमला-कुन्दन-सेवाग्राम-ट्रस्टद्वारा तथा बालभारती-सीनियर-सेकेण्डरी-विद्यालयद्वारा (पदमपुर-मोटाढाक) संयुक्ततया आयोजितः अयं संकल्पदिवसः एतत् सिद्धं कृतवान् यत् एकः महान् संकल्पः समाजस्य दिशां परिवर्तयितुं शक्नोति। अत्रैव प्रतियोगितायां भागं गृह्णन्तः विद्यार्थिन: “मानवता-प्रहरी” इव स्वविचारान् प्रस्तुतवन्तः।
अन्तर्विद्यालयीय-भाषण-प्रतियोगितायां नगरस्य विविध-विद्यालयेभ्यः आगताः छात्राः छात्राश्च यदा “रक्तदानस्य अङ्गदानस्य च महत्त्व-” विषये वक्तुम् आरब्धवन्तः, तदा नूतनसन्तति: सामाजिक-रूढतां विभञ्ज्य सेवायाः नूतनं इतिहासं रचयितुम् उद्यताऽभवत् इव अनुभूतम्।

अन्तर्विद्यालयीय-प्रतियोगितायां— प्रथमस्थानं अदिति-बडोला (ब्लूमिंग-वेल्स-विद्यालयः) प्राप, या स्वविचारैः “जीवनोपकारस्य” नूतनां परिभाषां निर्मितवती।
द्वितीयस्थानं सुप्ति-मैन्दोला (ए.वी.एन. विद्यालयः) प्राप्तवती।
तृतीयस्थानं प्राची-रावत (बालभारती-विद्यालयः) प्राप्तवती, या युवान् मानवतामार्गे चलितुम् आह्वानं कृतवती।

*“मृत्युः अन्तः न, नूतनारम्भः”*

कार्यक्रमस्य शुभारम्भे संयोजकः श्री गिरिराजसिंह-रावतः, मुख्यसेवक: दलजीतसिंहः तथा प्रधानाचार्या श्रीमती हिमानी-रावत: दीपप्रज्वलनं कृत्वा समाजं प्रति एतत् सन्देशं दत्तवन्तः—सेवा एव ईश्वरस्य सत्यभक्तिः।
संयोजकः गिरिराजसिंह-रावतः प्रेरणापूर्णैः शब्दैः अवदत्—
“स्वर्गीयः कुणालरावतः अद्य अस्माकं मध्ये भौतिकरूपेण नास्ति, किन्तु कस्यचित् हृदयस्पन्दने, कस्यचित् दृष्टौ स जीवति। अङ्गदानं तत् दिव्यं सेतुः अस्ति यः मृत्युगर्तं तीर्त्वा जीवनस्य विस्तारं करोति। अत्र उपस्थितः प्रत्येकः युवा ‘मानवता-दूतः’ अस्ति, यः समाजे अस्य पवित्रसंकल्पस्य प्रचारं करिष्यति।” समाजस्य ‘यथार्थ-नायकानां’ वन्दनम्
आयोजनकाले तान् व्यक्तीन् सम्मानितं कृतम् ये स्वजीवनं परोपकाराय समर्पितवन्तः। एषः सम्मानम् केवलं प्रतीकः न, अपि तु तेषां त्यागस्य कृतज्ञतासूचकः वर्तते।

दीनानाथ-भाटिया (अध्यक्षः, मुक्तिधा; वरिष्ठः समाजसेवी),
श्रीमती मञ्जू-सिंह (रक्तदानं, महिला-सशक्तीकरणम्),
बबलू-नेगी (पशुसेवा, रक्तदानम्), वाचस्पति-दीक्षितः (मानवसेवा—ऑल केयर फाउण्डेशन), श्रीमती इन्दु-नौटियाल: (असहाय-व्यक्तिसेवा), अजय-खन्तवालः (पत्रकारिता, रक्तदान-सेवा), श्री प्रकाश-ढौण्डियालः (गौसेवा),शंकर-बहादुरः (रक्तदानं, शिक्षा), सिद्धार्थ-उनियालः (युवा-मार्गदर्शनम्, क्रीडा-प्रोत्साहनम्), शिवम-नेगी (अध्यक्षः—देवभूमि पहल ग्रीन आर्मी; पर्यावरणसंरक्षणम्, रक्तदान-प्रेरणा, समाजसेवा)
तथा याशिका-जखवाल (योग-शिक्षिका; रक्तदान-अङ्गदान- प्रेरिका)। निर्णायक-मण्डले आधारशिलायाः सम्बद्धा नित्य-रक्तदात्री समाजसेविका प्रणिता-कण्डवाल:, कविता तथा उत्कर्ष-नेगी (सचिवः—देवभूमि पहल ग्रीन आर्मी) गरिमामयीं उपस्थितिं दत्तवन्तः। विद्यालय-परिवारस्य सदस्याः—मोनिका-बड़थ्वाल, सौरभ-पाण्डेयः, सन्दीप-रावतः तथा रविन्द्र-भारद्वाजः—अस्य सार्थकस्य उपक्रमस्य सफलतायै अमूल्यं योगदानं कृतवन्तः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button