गुरुकुलीयप्रणालीद्वारा विद्यार्थिषु अनुशासनस्य, नैतिकमूल्यस्य समाजं प्रति सम्मानभावनायाः च सञ्चारः – “डा.रमेशचन्द्रनैनवाल:”
पौड़ीसंस्कृतविभागेन “गुरुकुलपरम्परानुरूपं शिक्षादर्शनम्” इत्यन्तर्जालीयद्वितीयव्याख्यानस्य आयोजनम् कृतम् ।

उत्तराखण्डम्।हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालयस्य बी. जी. आर. इत्यस्मिन् पौड़ीस्थे परिसरे संस्कृतविभागेन आयोजितायां व्याख्यानश्रृङ्खलायां द्वितीयव्याख्यानस्य आयोजनं सञ्जातम्। कार्यक्रमस्य शुभारम्भः लौकिकमङ्गलाचरणेन अभवत्।

अस्मिन् कार्यक्रमे मुख्यवक्तृरूपेण डॉ. रमेशचन्द्रनैनवालः (सहायकाचार्यः, बाबासाहेबभीमराव: अम्बेडकरविश्वविद्यालयः, लखनो) “गुरुकुलपरम्परानुरूपं शिक्षादर्शनम्” इति विषयमधिकृत्य व्याख्यानं दत्तवान्। तेन व्याख्याने निरूपितं यत् भारतदेशः स्वातन्त्र्योत्तरकाले शिक्षाक्षेत्रे विविधप्रयोगान् अनुभूतवान् अस्ति। अद्य वर्तमानकाले यदा अस्माकं राष्ट्रं भारतीयसमस्यानां भारतीयसमाधानानि अन्वेषयति, तदा वयं भारतीयज्ञानस्य विविधविद्याशाखानां प्रति पुनरागच्छामः।
एतस्मिन्नेव सन्दर्भे मुख्यवक्त्रा प्राचीनगुरुकुलप्रणाल्याः महत्वं तस्याश्च वर्तमानप्रासङ्गिकता सर्वेषां पुरतः प्रस्तुता। व्याख्याने अस्य विषयस्यापि चर्चा कृता यत् गुरुकुलस्य मूलावधारणा अस्माकं शास्त्रेषु ग्रन्थेषु च कथं वर्णिता अस्ति। तत्र ज्ञानस्य चत्वारः चरणाः, अष्टाङ्गिकमार्गः, गुरुकुलीयपरम्परायां गुरोः महत्वं तस्य स्वभावश्च, तथा सम्पूर्णा गुरुकुलीयाधिगमप्रक्रिया विस्तरेण विवेचिता। कार्यक्रमे एतदपि विवेचितं यत् गुरुकुलीयप्रणालीनां माध्यमेन विद्यार्थिषु कथं अनुशासनस्य, नैतिकमूल्यानां च समावेशनं, समाजस्य प्रति सम्मानभावनायाः च सञ्चारः क्रियते स्म।
कार्यक्रमस्य अध्यक्षतां परिसरनिदेशकः प्रो. यू. सी. गैरोला महोदयः अकरोत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य श्रीरघुनाथकीर्तिपरिसरस्य निदेशकः प्रोफेसरः पी. वी. बी. सुब्रह्मण्यम् महोदयः स्वोद्बोधनेन सर्वान् सम्बोधितवान्।
अतिरिक्ततया कार्यक्रमसमन्वयिका प्रो. कुसुमडोबरियाल:, पूर्वपरिसरनिदेशकः प्रो. अनूपडोबरियाल:, प्रो. अनीतारुडोला, डॉ. पूनमबिष्टारावत:, डॉ. एन. के. आर्य:, डॉ. विश्वेशवाग्मी, डॉ. नीलमनेगी, डॉ. धर्मेन्द्रकुमार:, डॉ. अमनकुमारशर्मा, डॉ. विपुलसिंह:, डॉ. बिन्दुयादव:, डॉ. मनोजकुमार:, डॉ. सपनारावत:, डॉ. देवेन्द्रसिंह:, डॉ. दीवानसिंहराणा, डॉ. कृपालसिंहतोमर:, डॉ. ललिता, डॉ. पंकजकोटियाल:, डॉ. सी. बी. कोटनाला, डॉ. प्रीति:, डॉ. बालकृष्णबधानी, डॉ. राजपालशास्त्री इत्यादयः विभिन्नविभागानां शिक्षकाः, शोधार्थिनः तथा बहुसंख्यकाः विद्यार्थिन: अपि उपस्थिताः आसन्।
उपस्थिताः श्रोतारः विषयं समसामयिकं अत्यन्तं प्रासङ्गिकं च मन्यमानाः व्याख्यानस्य प्रशंसां अकुर्वन्। कार्यक्रमस्य संचालनं डॉ. गोकुलचन्द्रफुलारा अकरोत्, तकनीकीसंयोजनं डॉ. बिपिनकुमार: अकरोत्, तथा कार्यक्रमे उपस्थितानां सर्वेषां स्वागतं, धन्यवादज्ञापनं च कार्यक्रमस्य सफलसंयोजनं संस्कृतविभागस्य सहायकाचार्य: डॉ. दिनेशचन्द्रपाण्डेय: कृतवान् ।







