नैतिकमूल्यं राष्ट्रविकासाय महत्त्वपूर्णं – “प्रो.चन्द्रदत्तसूठा पूर्वनिदेशक:”
“भारतीयसंस्कृतौ सन्निहितानि मौलिकमूल्यानि तथा राष्ट्रिय-पुनर्निर्माणे तेषां प्रासङ्गिकता” विषयेस्मिन् गणायी-महाविद्यालये एकदिवसीय: राष्ट्रीय-सङ्गोष्ठी-समारोहः

पिथौरागढजनपदे राजकीय-महाविद्यालये गणायि-गङ्गोल्यां संस्कृत-विभागेन दिनाङ्के २७ फेब्रुवरी-मासे “भारतीयसंस्कृतौ सन्निहितानि मौलिकमूल्यानि तथा राष्ट्रिय-पुनर्निर्माणे तेषां प्रासङ्गिकता” इत्यस्मिन् विषये एकदिवसीयः राष्ट्रीय-सङ्गोष्ठी-समारोहः सम्यक् आयोजितोभवत्। कार्यक्रमस्य शुभारम्भः महाविद्यालयस्य प्राचार्येण तथा आगन्तुकैः अतिथिभिः दीपप्रज्वलनपूर्वकं कृतः। स्वागतगीतेन सह प्रतीकचिह्न-शालाभ्यां च अतिथीनां सम्मानः सम्पन्नं।

महाविद्यालयस्य प्राचार्यः प्रो. सिद्धेश्वरसिंहः स्वागतभाषणे उक्तवान् यत् एषा सङ्गोष्ठी राष्ट्रनिर्माणे अत्यन्तं महत्त्वपूर्णा अस्ति। उद्घाटन-सत्रस्य मुख्यवक्ता अरुणकुमारमिश्रः संस्कृतेः संस्काराणां च विषये विस्तरेण विवेचनं कृत्वा अद्यतनकाले भारतीयसंस्कृतेः मौलिकमूल्यानां प्रासङ्गिकतां निरूपितवान्। मुख्य-अतिथिः शैलेशकुमारतिवारी भारतीयसंस्कृतेः चत्वारः स्तम्भान्—आचारशुद्धिः, विचारशुद्धिः, उच्चारणशुद्धिः, सञ्चारशुद्धिः—इति निरूपितवान्।
प्रथमसत्रस्य मुख्यवक्ता प्रो. रामसलाहीद्विवेदी पर्यावरणसंरक्षणस्य आवश्यकता तथा प्रकृतिदोहनात् जायमानहानिः इत्यादीन् विषयान् प्रकाश्य संस्कृतभाषायाः समस्यासमाधाने अग्रगण्यत्वं प्रतिपादितवान्। डॉ. ब्रह्मानन्दमिश्रः पर्यावरणसंरक्षणे ज्योतिषशास्त्रस्य महत्त्वं निरूपितवान्। डॉ. प्रकाशचन्द्रजाङ्गी सत्यपालनस्य आवश्यकता तथा चतुर्णाम् आश्रमाणां कर्तव्यपालनस्य महत्त्वं व्याख्यातवान्।

प्रथमसत्रस्य अध्यक्षतां कुर्वन् उत्तराखण्ड-राज्यस्य उच्चशिक्षा-विभागस्य पूर्व-निदेशकः प्रो. चन्द्रदत्तसूठः अवदत्—नैतिकमूल्यानि अस्माकं व्यवहारं नियच्छन्ति, संस्कारैः आचरणं मर्यादितं भवति। आत्मानुशासनस्य माध्यमेन आत्मपरिवर्तनम्, परा-अपरा-विद्ययोः स्वरूपम्, विकास-पर्यावरणसंरक्षणयोः संतुलनम् इत्यादिषु विषयेषु सः महत्त्वपूर्णं मार्गदर्शनं दत्तवान्। तेन सत्रे प्रस्तुतानां शोधपत्राणां सारांशोऽपि प्रस्तुतः।
द्वितीयसत्रस्य मुख्य-अतिथिः हरिश्चन्द्र-उपाध्यायः भारतीयसंस्कृतेः गौरवगाथां विवृण्वन् अवदत् यत् वेदाः, पुराणानि, उपनिषदः, रामायणम्, महाभारतम्, चाणक्यनीतिः, विदुरनीतिः, गीता च—एतेषां ग्रन्थानां माध्यमेन आदर्शजीवनस्य शिक्षां प्राप्नुमः। द्वितीयवक्ता डॉ. गणेश्वरनाथझा “विकसितभारताय नैतिकमूल्यानां आवश्यकता” विषयेस्मिन् व्याख्यानं दत्त्वा अवदत् यत् यावत् युवासन्तति: नैतिकमूल्यसम्पन्ना न भवति तावत् विकसितभारतस्य परिकल्पना असम्भवास्ति। डॉ. मनीषकुमारः परिवारस्य समाजस्य च महत्त्वं निरूपितवान् तथा कौटिल्यस्य अर्थशास्त्रे प्रजाहितस्य सर्वोपरित्वं प्रतिपादितवान्। डॉ. अनिलकुमारः आयुर्वेदस्य, स्थापत्यकलायाः, योगस्य, बाह्य-अन्तर-नियन्त्रणस्य च विषये व्याख्यानं दत्त्वा प्राचीनज्ञानस्य वैज्ञानिकदृष्ट्या अवलोकनस्य आवश्यकता प्रतिपादितवान्।
पी.एन.जी.राजकीय-स्नातकोत्तर-महाविद्यालय-रामनगरे
-नैनीताले संस्कृत-विभागस्य सहायक-प्राध्यापकः डॉ. मूलचन्द्रशुक्लः “संस्कृतसाहित्ये सन्निहितानि मानवमूल्यानि राष्ट्रस्य अभ्युदय-निर्माणयोः प्रासङ्गिकानि” विषयेस्मिन् सारगर्भितं वक्तव्यं दत्तवान्। तेन अहिंसा, सत्यं, करुणा, परोपकारः, “मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव” इत्यादीनां उपनिषद्वाक्यानां माध्यमेन माता-पिता-गुरूणां सम्मानस्य आवश्यकता प्रतिपादिता। एतानि नैतिकतत्त्वानि राष्ट्रस्य अभ्युदयाय अत्यन्तं प्रासङ्गिकानि इति तेन निर्दिष्टम्।
प्रो. विश्वमोहनपाण्डेयः नैतिकतायाः संवर्धनं आवश्यकमिति उक्तवान्।
सत्राध्यक्षः प्रो. भोला-झा सर्वेषां वक्तॄणां शोधपत्राणां च प्रशंसां कृत्वा कालिदासादीनां महाकवीनां त्याग-आदर्शान् उद्धृत्य “वसुधैव कुटुम्बकम्” इति भावनायाः जागरणम् अपेक्षितम् इति प्रतिपादितवान्। प्रो. प्रकाशचन्द्रपन्तः संस्कृते निर्दिष्टस्य नैतिकाचारस्य आचरणेन अद्यतनसमाजे दुर्घटनानां निवारणं शक्यते इति अवदत्। डॉ. अभिमन्युसिंहः, डॉ. गौतमः, डॉ. आलोककुमारसेमवालः, डॉ. अभिषेकपरगायी च अपि स्वस्ववक्तव्यैः कार्यक्रमं समृद्धवन्तः।
कार्यक्रमस्य संचालनं सङ्गोष्ठी-संयोजकेन डॉ. दीपककुमारकोठारीवर्येण, सह-संयोजकेन डॉ. दीप्तिबिष्टद्वारा तथा डॉ. गौरवकुमारद्वारा कृतम्। समापनकाले प्राचार्यः प्रो. सिद्धेश्वरसिंहः सर्वेषां अतिथीनां वक्तॄणां च आभारं व्यक्तवान्। अन्तर्जालीय-सत्रे धन्यवादज्ञापनं डॉ. दीपककुमारकोठारीद्वारा कृतम्। कार्यक्रमे महाविद्यालयपरिवारस्य सदस्याः छात्राः च बहुसंख्यया उपस्थिताः आसन्।







