संघर्षशीलस्वप्नस्य सुखदयात्रा, – उत्तराखण्डसंस्कृत-अकादम्याः उत्तराखण्डसंस्कृत-संस्थान-पर्यन्तयात्रा – “डा. नरेन्द्रपाण्डेय:”य:

उत्तराखण्डसंस्कृत-अकादम्याः उत्तराखण्डसंस्कृत-संस्थान-पर्यन्तं संघर्षशीलस्वप्नस्य सुखदयात्राविषये पूर्वप्रदेश-संघटन-मन्त्री,
(संस्कृतभारती-उत्तराखण्डं) डा. नरेन्द्रपाण्डेयवर्य: भावाक्षराणि प्रकटयति यत् –
मित्राणि!
यत् कश्चित् वृक्षः रोप्यते, नितान्तं न आवश्यकं यत् तस्य फलानां स्वादः स्वजीवनकाले एव अनुभूयेत। तथैव यत् किञ्चिद् संघटनं वा संस्था वा निर्मीयते, न आवश्यकं यत् तस्य लक्ष्यपूर्तिः अथवा कार्यसिद्धिः कर्तृभिः स्वनेत्राभ्यां एव दृष्टा भवेत्। उदाहरणरूपेण—
जनसंघस्य संस्थापकः स्व. डॉ. श्यामा-प्रसाद-मुखर्जी महोदयः कश्मीर-विषये राष्ट्रहिताय बलिदानं कृतवान्, किन्तु “एकस्मिन् देशे द्वे विधाने, द्वौ प्रधानौ, द्वे चिह्ने” इति भेदस्य नाशं स्वनेत्राभ्यां द्रष्टुं नालभत। तथैव श्रीराममन्दिरस्य पुनर्निर्माणार्थं आजीवनं संघर्षरतः स्व. अशोक-सिंघल-महोदयः अपि तस्य सुखदं दृश्यं स्वजीवने नाद्राक्षीत्। एतेषु इव असंख्येषु उदाहरणेषु पवित्रभावनया ध्येयनिष्ठया च आरब्धानि कार्याणि कालान्तरेण अवश्यमेव शुभां परिणतिं प्राप्नुवन्ति।
अद्य प्रसङ्गः अस्ति यत् उत्तराखण्ड-सर्वकारेण “उत्तराखण्ड-संस्कृत-अकादमी” इति नाम परिवर्त्य “उत्तराखण्ड-संस्कृत-संस्थानम्” इति कृतम्।
एष: मार्ग:, एषा च सङ्घर्षयात्रा वयं संवत्सरे २०१० मध्ये, संस्कृतस्य उत्तराखण्डस्य द्वितीय-राजभाषा-घोषणानन्तरमेव, अग्रिम-लक्ष्यरूपेण आरब्धवन्तः। तस्मिन् काले अकादम्याः सचिवः स्व. डॉ. बुद्धदेव-शर्ममहोदयः, उपाध्यक्षः च प्रो. महावीर-अग्रवाल-महोदयः आस्ताम् । ये च वरिष्ठः संघ-प्रचारकः स्व. ओमप्रकाश-महोदयः, यः लखनौतः प्रत्येकप्रवासे आगत्य हरिद्वारे संघ-कार्यालये अस्मान् उपाविश्य अस्य कार्यस्य विषये अनुशासनं कुर्वन् समयसीमां पृच्छति स्म—एते त्रयः अद्य अस्माकं मध्ये न सन्ति। किन्तु तेषां अभिलाषा अद्य पूर्णा जाता। अकादमी अद्य “संस्थानम्” इति नाम्ना विख्याता भविष्यति।
मित्राणि!
मम स्मृतौ अद्यापि स: कालखण्डः अस्ति, यदा संस्कृतं उत्तराखण्डस्य द्वितीया राजभाषा कर्तुं वयं बहून् कार्यक्रमान् आन्दोलनानि च अकरवाम। पत्रिकाः वितरिताः, सभाः, सम्मेलनानि—सर्वं लिखितुं न शक्यते। भवत्सु अनेके अस्यां यात्रायां सहभागीभूत्वा संघर्षं कृतवन्तः। विंशतिवर्षपूर्वं सः समयः अपि स्मर्यते, यदा उत्तराखण्डस्य प्रत्येक-जनपदे सम्मेलनानि आयोजितानि, तेषां कृते मासान् यावत् बसयानैः सम्पूर्णस्य उत्तराखण्डस्य प्रवासः कृतः। अतः अस्याः गाथायाः अत्रैव विरामः।
एतस्य विलम्बितस्य पुण्यकार्यस्य सम्पादनाय सर्वकाराय हार्दिक-अभिनन्दनानि । सजगाः तिष्ठन्तु, संघटिताः भवन्तु, प्रमाणिकतया ध्येयनिष्ठया च कार्यं कुर्वन्तु। फलम् अवश्यमेव लभ्यते—अद्य न चेत् श्वः।
नूनम् संघर्षरतानाम् भगीरथप्रयास: साफल्मवाप्नोत् अकस्माकम् कृते गौरवास्पदम् ।







