उत्तरप्रदेशउत्तराखण्डसंस्कृत भारती

अमरवाणीकविपरिषदा आयोजितम् एकमासात्मकं शीतकालिकं संस्कृतसम्भाषणशिविरम्

वार्ताहरः-डॉ. अभिषेकपाण्डेयः । संस्कृतभाषा न केवलं प्राचीनग्रन्थानां दिव्यवाणी,अपि तु आधुनिकजीवनेऽपि सर्वथा व्यवहारयोग्या, संवादसुलभा, चिन्तनसमृद्धा च अस्ति—इति तत्त्वं प्रत्यक्षतया प्रमाणीकुर्वत्या अमरवाणीकविपरिषदा दिनाङ्कात् १४ दिसम्बर २०२५ तः १५ जनवरी २०२६ पर्यन्तं शीतकालिकम् एकमासात्मकम् आन्तर्जालीयं संस्कृतसम्भाषणशिविरम् अत्यन्तं सफलतया आयोजितम्। अस्य शिविरस्य मूलोद्देश्यः संस्कृतभाषायाः व्यावहारिकोपयोगिताया: प्रकाशनं,छात्रेषु संवादक्षमताया: विकासः, व्यक्तित्वपरिष्कारस्य संवर्धनं च आसीत्। एकमासपर्यन्तं सञ्चालितेषु प्रशिक्षणसत्रेषु संस्कृतसम्भाषणाभ्यासः, गीतगायनम्, संवादप्रयोगः, अनुभवविनिमयः,दैनन्दिनजीवने संस्कृतस्य सहजप्रयोगविधयश्च नियमितरूपेण प्रशिक्षुभिः अभ्यासीकृताः।शिविरस्य सम्पूर्तिसमारोहः १५ जनवरी २०२६ तमे दिनाङ्के भव्यतया सम्पन्नः।

अतिथीनां वाचिकस्वागतक्रमे शिविरसंयोजकेन प्रो. शरदिन्दुकुमारतिवारी महोदयेन प्रतिपादितं यत् संस्कृतभाषायाः वैश्विकमहत्त्वं, बौद्धिकता, तार्किकसंरचना तथा च व्यक्तित्वविकासे अस्याः अनुपमेयम् अवदानं वर्तते। शिविरपरिकल्पकेन डॉ. अरविन्दतिवारी महोदयेन “शिविराख्या” रूपेण शिविरस्य संकल्पना,उद्देश्यम् , कार्यपद्धत यश्च सुविस्तरेण प्रकाशिताः।
विशिष्टातिथिः उत्तराखण्डसंस्कृत विश्वविद्यालयस्य नूतन: कुलपतिः प्रो. रमाकान्तपाण्डेयः स्वीयोद्बोधने अवदत् यत् संस्कृतभाषा न केवलं प्राचीनग्रन्थानां भाषा, अपि तु आधुनिकजीवनस्य समर्था जीवनभाषा अपि अस्ति। यदा संस्कृतं सम्भाषणरूपेण व्यवह्रियते,तदा सा जनमानसे स्वयमेव स्थानं प्राप्नोति। अस्य शीतकालीन-एकमासात्मक-संस्कृतसम्भाषण-शिविरस्य माध्यमेन प्रशिक्षव: न केवलं शब्दज्ञानं , अपि तु आत्मविश्वासं, भाषासंवेदनां च अर्जितवन्तः। एतादृशी शिविरपरम्परा संस्कृतपुनर्जागरणस्य सशक्तं साधनम् इति तेन प्रतिपादितम्।

सारस्वतातिथिः प्रो. सन्तोषकुमारशुक्लः अवदत् यत्—संस्कृतं भावनानां, संस्कृतेः, जीवनमूल्यानां च संवाहिका भाषा अस्ति। सम्भाषणशिविरेण एषा भाषा शास्त्रसीमां त्यक्त्वा लोकजीवने प्रविशति। बालकात् आरभ्य प्रौढपर्यन्तं सर्वेषां कृते संस्कृतसम्भाषणं सहजं कर्तुं शक्यते—इत्येतत् शिविरं साक्षात् प्रमाणम्। अमरवाणीकविपरिषदा अस्मिन् क्षेत्रे यदवदानं कृतम्, तत् नितरां प्रशंसनीयम्।

विशिष्टातिथिः प्रो. धर्मदत्तचतुर्वेदी महोदयः अवदत्—संस्कृतसम्भाषणस्य अभ्यासः केवलं भाषाभ्यासः न, अपि तु चिन्तनशुद्धताया:, उच्चारणशुद्धताया:, सुसंस्कारस्य च प्रभावशाली साधनम्। एकमासात्मकेन एतेन शिविरेण शिविरप्रशुक्षूणां वाग्बलवर्धनं कृत्वा तेषां व्यक्तित्वे नूतनं तेजः सम्प्रेषितम्। यदि एतादृशानि शिविराणि सर्वत्र आयोज्येरन्, तर्हि संस्कृतं पुनः लोकभाषारूपेण प्रतिष्ठां प्राप्स्यति।

डा. जगदानन्दझा: महोदयेन उक्तं यत् संस्कृतभाषा भारतीयज्ञानपरम्परायाः मेरुदण्डः अस्ति। योगः,आयुर्वेदः, दर्शनम्, काव्यम्, नीतिशास्त्रं—सर्वेषां मूलं संस्कृते एव निहितम्। अतः संस्कृतस्य उपयोगिता केवलं अतीते न, अपितु वर्तमानभविष्ययोः अपि व्यापिकास्ति। एतत् मासिकं सम्भाषणशिविरं संस्कृतभाषायाः जीवितप्रयोगं सुस्पष्टं दर्शयति। प्रशिक्षकाणां, सहयोगिनां, आयोजकानां च समन्वयेन एषः कार्यक्रमः आदर्शरूपेण सम्पन्नः।

कार्यक्रमाध्यक्षः आचार्यहरिदत्तशर्मा अध्यक्षीयभाषणे अवदत् यत्—संस्कृतं जनानां सहजसंवादभाषा भवितुम् अर्हति। अमरवाणीकविपरिषदा आयोजितं एतत् शीतकालीनं संस्कृतसम्भाषणशिविरं भाषासाधनायाः कृते संस्कृतेन सम्भाषणार्थं च उत्तमं उदाहरणं वर्तते। प्रशिक्षकाः, कक्षासमीक्षकाः, सहयोगिनश्च निरन्तरपरिश्रमेण साधकान् मार्गदर्शितवन्तः। एषा परम्परा चिरं प्रवर्धताम्—इति तेन शुभाशंसनमपि प्रदत्तम्।

धन्यवादप्रकाशनक्रमे डॉ. अरविन्दतिवारी महोदयः अवोचत् यत् अस्य शीतकालीन-संस्कृतसंभाषणशिविरस्य सफलतायै साधकानां आत्मीयः उत्साहः, प्रशिक्षकानां अविचलिता निष्ठा, अतिथीनां स्नेहपूर्णं मार्गदर्शनं च समानरूपेण कारणभूतम्। संस्कृतसम्भाषणप्रसाराय अमरवाणीकविपरिषदा यः दृढनिश्चयः कृतः, स एतेन एकमासात्मकशिविरेण यथार्थरूपेण सिध्दिम् अगमत्।

शिविरस्य शैक्षणिकसौष्ठवं विशेषतया प्रशिक्षकवर्गस्य अथकपरिश्रमस्य फलमासीत्। आचार्या कमला पाण्डेया, श्रीसन्तोषचतुर्वेदी, डॉ. चन्द्रकान्तदत्तशुक्लः, डॉ. सचिनत्रिपाठी, शशिकान्तत्रिपाठी, डॉ. अवधेशमिश्रः, पंकजझा:, डॉ. धर्मेन्द्रतिवारी, डॉ. सरोजपाण्डेयः—एतेषां मार्गदर्शनात् साधकानां संभाषणकौशलं आत्मविश्वासं च उल्लेखनीयरूपेण वर्धितम्।
तथैव कक्षासमीक्षकैः सहयोगिभिश्च—डॉ. सिंहासनपाण्डेयः, माधवीमधुकरझा:, डॉ. आशुतोषदुबे, श्रीजगदानन्दझा:, डॉ. शम्भुत्रिपाठी,डॉ. विपुलशुक्लः,डॉ. अनन्तमणित्रिवेदी, डॉ. अभिषेकपाण्डेयः, डॉ. लवशुक्लः, डॉ. अनुराधादुबे इत्यादिभिः महोदयैः—निरन्तरं प्रदत्तः सहयोगः शिविरस्य अनुशासने महत्त्वपूर्णः आसीत्।

एवं तेन सर्वेषां अतिथीनां, वक्तॄः, प्रशिक्षकान्, समीक्षका न्, सहयोगिन: च प्रति अमरवाणीकविपरिषत्परक्षत: तेन हृदयस्पर्शी कृतज्ञताभावः समर्पितः। समग्रस्य कार्यक्रमस्य सञ्चालनं डॉ. चन्द्रकान्तदत्तशुक्लेन अत्यन्तं सौष्ठवेन, संस्कृतसंवादमयशैल्या च कृतम्, येन सम्पूर्णः समारोहः सरसः, अनुशासितः, स्मरणीयश्च जातः।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button