भारतीयप्रौद्योगिकीसंस्थाने ज्ञानविज्ञानयोः सङ्गमः समदृश्यत

अथ रुडकीपुरे प्रख्याते भारतीयप्रौद्योगिकीसंस्थाने ज्ञानविज्ञानयोः सङ्गमः समदृश्यत । तत्रस्थेन व्यवस्थापनाध्ययनविभागेन संस्कृतमण्डलेन संस्कृतभारत्याश्च रुडकीजनपदशाखया मिलित्वा सोमवासराद् द्वादशदिवसीया शिक्षकाणां प्रशिक्षणकार्यशाला समारब्धा । राष्ट्रस्य पुनरुत्थानाय सार्थकः प्रयासः इति अस्याः कार्यशालायाः मुख्यो विषयः परिकल्पितः ।
अस्यां ज्ञानयज्ञरूपायां कार्यशालायां संस्थानस्य निदेशकः माननीयः पन्तः कमलकिशोरमहोदयः तथा च उत्तराखण्डराज्यस्य संस्कृतशिक्षानिदेशकः विद्वद्वर्यः भारद्वाजः आनन्दमहोदयश्च संरक्षकत्वेन विराजतः ।
औपचारिकोद्घाटनप्रसङ्गे तत्रभवन्तः गौरिशेट्टी अनिलवर्यः यः संस्कृतमण्डलस्य नेता अग्रवालः रजतमहोदयश्च यः व्यवस्थापनविभागस्य अध्यक्षः तथा च पवन-हेमन्तकुमार-नामानौ विद्वान्सौ समुपस्थिताः आसन् ।
अस्य महाप्रयासस्य साफल्यं येषां मनीषया कर्मणा च सम्भूतं तेषु प्रमुखाः सन्ति गौरिशेट्टी अनिलः संस्कृतमण्डलपक्षतः अग्रवालः रजतः अध्ययनविभागपक्षतः पन्तः नवलकिशोरः संस्कृतभारत्याः ज्येष्ठकार्यकर्ता शर्मा भारती संस्कृतभारत्याः जनपदाध्यक्षा हिन्दू श्रद्धा जनपदमन्त्रिणी गौडविष्णुः शिक्षणप्रमुखः पुरुषोत्तमः पत्राचारप्रमुखः जखमोला राहुलः सम्पर्कप्रमुखः रामेश्वरश्च खण्डसहसंयोजकः । एतेषां सर्वेषां सक्रिययोगदानेनैव यज्ञोऽयं प्रारब्धः ।
कार्यशाला चेयं नानाविधानां प्रतिभागिनां समवायेन शोभते । अत्र सप्ततिमिताः जनाः पञ्जीकरणं कृतवन्तः येषु हिन्दी-संस्कृत-गणित-विज्ञानाध्यापकाः शोधच्छात्राः शिक्षाशास्त्रिणश्च अन्तर्भवन्ति इति संस्कृतभारत्याः जनपदाध्यक्षा शर्मा भारती महाभागा असूचयत् ।
जनपदमन्त्रिणी श्रीमती हिन्दू श्रद्धा प्रावोचत् यत् शिक्षकप्रशिक्षणनाम्ना ख्यातायाः अस्याः कार्यशालायाः मुख्यं लक्ष्यमस्ति यत् विद्यालयेषु कार्यरताः शिक्षकाः सरलया संवादात्मिकया व्यावहारिक्या च शैल्या संस्कृतशिक्षणे कुशलाः भवेयुः । येन छात्राणां मनःसु देववाण्यां भारतीयज्ञानपरम्परायां च प्रति न केवलं रुचिः अपि तु गौरवभावोऽपि संवर्धेत ॥
पत्राचारप्रमुखः पुरुषोत्तमः महाभागः अकथयत् यत् कार्यशालायाः एकम् आकर्षकं वैशिष्ट्यं वर्तते यत् प्रतिदिनं सत्रारम्भे द्वादश-पञ्चदशनिमेषान् यावत् कस्यचिद् विशिष्टविदुषः प्रबोधनं भविष्यति ।
सम्पर्कप्रमुखः जखमोला राहुलः अपि न्यवेदयत् यद् उद्घाटनदिने एव सङ्कल्प एव एकमात्रो विकल्पः सङ्कल्पेनैव शिखरपर्यन्तम् इति विषये प्रेरकं व्याख्यानम् अभवत् । येन सर्वेषु प्रतिभागिषु नवोत्साहस्य तरङ्गाः समुदभवन् ।
उद्घाटनविधेरनन्तरं प्रशिक्षणप्रमुखेन आचार्येण गौडविष्णुना प्रशिक्षणस्य विधिवत् प्रारम्भः कृतः । प्रतिभागिनः महता उत्साहेन अस्यां ज्ञानवर्धिन्यां कार्यशालायां भागं गृह्णन्ति । विविधैः रोचकैः क्रीडनकैः सरलसंस्कृतमाध्यमेन च ते शिक्षणकौशलानि अधिगच्छन्ति ।
इयं कार्यशाला अगस्तमासस्य एकोनत्रिंशद्दिनाङ्कपर्यन्तं प्रचलिष्यति । ये च प्रतिभागिनः शतप्रतिशतम् उपस्थिताः भविष्यन्ति तेभ्यः प्रमाणपत्रं प्रदास्यते । संस्कृतभारत्याः रुडकीजनपदकार्यकारिण्याः अयं दृढः सङ्कल्पोऽस्ति यदयं प्रयासः विद्यालयस्तरेषु संस्कृतभाषायाः भारतीयज्ञानपरम्परायाश्च संवर्धनाय एकः महत्त्वपूर्णः सोपानः सेत्स्यति ॥