उत्तराखण्डहरिद्वार

वाग्विलासरसिकानां कर्णोत्सवप्रदा कविसम्मेलनम्

अथ वाग्विलासरसिकानां कर्णोत्सवप्रदा काचन कविकलाकेलिकथा कथ्यते। संस्कृतवाङ्मयकानने नवकिसलयकल्पान् युवविहगान् वाग्वैचक्षण्यमुद्दीपयितुं बद्धपरिकर आदर्शकविसमवायो नाम कश्चन पण्डितपरिषद् विजयते। तेनैव समवायेन प्रतिमासं काव्यगोष्ठी विधीयते यस्याध्यक्षतां विद्वन्मूर्धन्या मिश्रनिरञ्जनमहाभागा वहन्ति।

गते अगस्तमासे भारतस्य भाविनीं समुन्नतिं मनसि निधाय विकसितं भारतमिति विषयमादाय भावोदरी रमणीया काव्यगोष्ठी समायोजिता। सा च गोष्ठी गीर्वाणवाणीवन्दनरूपेण मङ्गलाचरणेन प्रारब्धा। तत्र च वाग्देवतायाः प्रसादमवाप्ताः प्रख्याताः कवयः समवेता अभवन्। तेषु प्रामुख्येन मिश्रलक्ष्मीनारायणस्तिवार्यर्विन्दकुमारः पाण्डेयसिंहासनो मिश्रराजकुमारश्चेत्यादयो विपश्चितः स्वकाव्यसुधया श्रोतॄनतर्पयन्। एभिः कविपुङ्गवैरद्यतनैर्ज्ञानविज्ञानसाधनैः समेधितस्य भारतस्योज्ज्वलं चित्रं वर्णयद्भिर्मनोहरैः पद्यैः सदस्यानां मनांसि हृतानि।

तदनु समवायाध्यक्षैर्विद्वद्भिर्मिश्रनिरञ्जनमहोदयैरपि स्वविरचितं काव्यं श्रावयित्वा काव्यरचनामार्गे प्रवृत्तानां तरुणकवीनां कृते प्रोत्साहनवाक्यानि प्रयुक्तानि। युवकविषु च पनेरूसतीशः पौडेलैकेनारायणो नरेशप्रसादस्तथा जोशीअमितप्रभृतयः स्वकीयमधुरकविताभिः सभामरञ्जयन्। अस्यां वाग्विलासभायां बहवः काव्यरसिकाः सहृदयाश्च श्रोतारः समुपस्थिता आसन्। अस्य निखिलस्य कविसम्मेलनस्य सूत्रधारपदवीं युवा कविर्जोषीब्रजेशोऽलञ्चकार॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button