उत्तराखण्डहरिद्वार

ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये उत्तराखण्डमुक्तविश्वविद्यालयस्य प्रचारप्रसाराभियानान्तर्गतं विशिष्टः कार्यक्रमः

अद्य देवभूमौ हरिद्वाराख्ये पुण्यक्षेत्रे गङ्गातटे विराजिते ऋषिकुलविद्यापीठब्रह्मचर्याश्रमसंस्कृतमहाविद्यालये उत्तराखण्डमुक्तविश्वविद्यालयस्य प्रचारप्रसाराभियानान्तर्गतः एको विशिष्टः कार्यक्रमः सुसम्पन्नोऽभूत् ॥ यस्यायोजनस्य मुख्यमुद्देश्यमासीत् यत् अधिकाधिकजनाः विशेषतः संस्कृतच्छात्राश्च विश्वविद्यालयस्य विविधेषु पाठ्यक्रमिकासु प्रवेशं लभेरन्निति ॥

कार्यक्रमस्यारम्भे महाविद्यालयस्य प्राध्यापकाः पन्तनवीनचन्द्रमहोदयाः उत्तराखण्डमुक्तविश्वविद्यालयात् समागतानां सहायकक्षेत्रीयनिदेशकानां मान्यानां वनकोटीब्रजेशवर्याणाम् अभिनन्दनं पुष्पगुच्छैः चक्रुः ॥ स्वागतभाषणे च ते प्रोचुः यत् मुक्तविश्वविद्यालयोऽयं वर्तमानसमयस्य महती आवश्यकता वर्तते ॥ अस्य प्रयासस्तु सर्वस्पृक् सर्वव्यापी च विद्यते येन सामान्यजनानां संस्कृतविद्यार्थिनाञ्च समानरूपेण हितसाधनं भवेदिति ॥

अस्मिन्नवसरे सहायकक्षेत्रीयनिदेशकाः वनकोटीब्रजेशमहोदयाः स्वविचारान् प्रकटयन्तोऽवदन् यत् मुक्तविश्वविद्यालयस्येदं व्रतं वर्तते यत् स उच्चशिक्षाया ज्ञानगङ्गां प्रतिगृहं प्रापयेत् ॥ कापि परिस्थितिः कञ्चिदपि जनम् उच्चशिक्षायाः लाभात् वञ्चितं कर्तुं न शक्नुयात् इत्येवास्माकं ध्येयम् ॥ तैरिदपि निवेदितं यत् संस्कृतं ज्योतिषं कर्मकाण्डम् इत्यादीन् भारतीयज्ञानपरम्परायाः महत्त्वपूर्णान् पाठ्यक्रमान् विश्वविद्यालयः सञ्चालयति यस्य लाभं छात्राः शिक्षकाः वृत्तिजीविनश्च सर्वेऽपि स्वीकर्तुमर्हन्ति ॥

अन्ते महाविद्यालयस्य प्राचार्याः चमोलीबलदेवप्रसादमहोदयाः मुक्तविश्वविद्यालयस्य पाठ्यक्रमान् भूरिशः प्रशंसन्तः स्वमतं प्राकाशयन् ॥ तेऽब्रुवन् यत् नूनमनेनाभियानेन सहस्रशः शिक्षावञ्चिताः जनाः लाभान्विता भविष्यन्ति उच्चशिक्षा च तेभ्यः सुलभा भविष्यति ॥ यदा नूतनशिक्षानीत्या भारतीयज्ञानपरम्परायाः चर्चा सर्वत्र प्रचलति तदा तां परम्परां छात्रेषु क्रियान्वितां कर्तुं मुक्तविश्वविद्यालयो मुक्तकण्ठेन यत् कार्यं करोति तत् भृशं श्लाघनीयम् ॥ संस्कृतच्छात्रान् प्रति ते आह्वानं चक्रुः यत् भवन्तः स्वकीयैर्नियमितैरध्ययनैः सहैव मुक्तविश्वविद्यालयात् उपाधिपत्रे पत्रके प्रमाणपत्रे वा प्रवेशं प्राप्य स्वज्ञानभण्डारं वर्धयेयुरिति ॥

कार्यक्रमेऽस्मिन् विद्यापीठस्य वरिष्ठाः आचार्याः परगांईचूडामणिः काण्डपालदेवीदत्तः शर्मभास्करः जोशीरमेशचन्द्रः बहुगुणामहेशः तिवारीप्रकाशचन्द्रः शर्ममनोजः श्रीमती जोश्युमा पन्तभारती श्रीमती जोशीचम्पा श्रीमती जोशीगीता ढौंढियालसचिनः जोशीहर्षवर्धनः पाण्डेयगौरवः किशोरकमलः जोशीपीयूषः चिन्मयः पीयूषः पन्तकमलेशः अथर्वः भट्टायुषः शर्मनवनीतः सहिताः अन्ये छात्राश्च समुपस्थिता आसन् ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button