उत्तरप्रदेश

संस्कृतभाषा पुनरपि परं वैभवं प्राप्स्यति – डॉ. हरीशचन्द्र गुरुरानी।

वार्ताहर: – सचिनशर्मा , मोदीनगरम् , गाजियाबाद: ( उ.प्र. ) उत्तरप्रदेशसंस्कृतसंस्थानस्य निदेशकस्य विनयश्रीवास्तवस्य प्रेरणया ऑनलाइन-शिक्षण-पाठ्यक्रम-निर्माण-योजनायाः अन्तर्गतानां सञ्चालितासु संस्कृतभाषाशिक्षणकक्षाणाम् अगस्तमासेSस्मिन् ‘ स्वतन्त्रतान्दोलने संस्कृतस्य संस्कृतविदुषां च योगदानम् ’ इति विषयम् आधृत्य प्रेरणासत्रस्य आयोजनं क्रियते । अस्य प्रेरणासत्रस्य शुभारम्भं दीपिका मिश्रा सरस्वतीवन्दनया कृतवती ।

प्रेरणासत्रेSस्मिन् मुख्यातिथि: उत्तराखण्ड-संस्कृत-अकादम्याः शोधाधिकारी उत्तराखण्ड सर्वकारः इतोSपि संस्कृत भारती सङ्घटनस्य पश्चिमोत्तरक्षेत्रमन्त्री डॉ. हरिशचन्द्रगुरुरानी स्वस्योद्बोधने उक्तवान् यत् स्वतन्त्रतायाः यः अमृतकाल: वर्तते । एतं कालम् आनेतुं देशभक्तै: सह संस्कृतविद्वांसः अपि महान् योगदानं कृतवन्त: । भारतदेशस्य भावना ‘ वसुधैव कुटुम्बकम् ’ अस्ति । बालगंगाधरतिलक: , पंडित: क्षमाराव:, अम्बिकादत्तव्यास: इत्यादय: यत् साहित्यं रचितवन्त: । तत् भारतीय-क्रान्तिकारिणां कृते प्रेरणादायकं वर्तते । गीता चत्वार: वेदाः पुराणानि उपनिषद: च संस्कृतभाषायाम् एव विद्यमानाः । संस्कृतभाषया एव सर्वम्। यदि संस्कृतं नास्ति तर्हि संस्कृति: नास्ति । यदि संस्कृति: नास्ति तर्हि संस्कारः अपि नास्ति , यदि संस्कारः नास्ति तर्हि किमपि नास्ति । अतः संस्कारः संस्कृति: च द्वयमपि ज्ञातुं संस्कृतभाषायाः अध्ययनं निश्चयेन आवश्यकम् । वयं सर्वेSपि एतान् ग्रन्थान् पठित्वा देशसेवां कर्तुं शक्नुम: । हरीशमहोदयेन इदम् अपि उक्तं यत् अद्यत्वे ये सैनिकाः लेह-लद्दाकसदृशे क्षेत्रे विषमवातावरणे निवासं कृत्वा देशस्य रक्षां कुर्वन्तः स्वस्य प्राणान् त्यजन्ति। तेषां सर्वेषां देशभक्तानां कृते संस्कृतमातु: सेवा एव वास्तविक-श्रद्धाञ्जलि: वर्तते ।

समन्वयकः धीरजमैठाणी प्रास्ताविकं कृतवान् । मुख्यवक्तु: परिचयं प्रशिक्षिका दीपिकामिश्रा कृतवती । सत्रस्य मञ्चसञ्चालनं प्रशिक्षिका नीलमरानी कृतवती । सम्पूर्णतकनीकीसञ्चालनं यूट्यूब-लाइव-प्रसारणं प्रशिक्षक: सचिन शर्मा सफलतापूर्वकं कृतवान् ।कक्षायाः अनुभवं प्रवीणप्रकाश: उक्तवान् । गीताश्लोकस्य प्रस्तुति: लघु बालक: ऋत्विक् कृतवान् । तनीषा मोनानी अपि श्लोकान् उक्तवती । कार्यक्रमस्य अन्ते प्रशिक्षक: जीवनप्रकाशतिवारी सर्वेभ्य: समागतेभ्य: धन्यवादम् उक्तवान् । अवसरेSस्मिन् उत्तरप्रदेशसंस्कृतसंस्थानस्य प्रधानसहायक: योजनाप्रभारी च भगवानसिंहचौहान: , प्रशिक्षणप्रमुख: सुधीष्ठमिश्र: , समन्वकगणतो , राधा शर्मा , दिव्यरञ्जन: च इत्यादयः उपस्थिताः आसन् ।”सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः” इति शान्तिमन्त्रं छात्र: प्रकेतगर्ग: कृतवान् , प्रशिक्षक: सुधीरकुमार: सूचनां दत्तवान् । अनेन कार्यक्रम: सफलतापूर्वकं सम्पन्नम् अभवत् ।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button