उत्तरप्रदेशदेश

उत्तरप्रदेशस्य अयोध्यायां 750 कोटिरूप्यकै: निर्मास्यते विश्वस्तरीय: मन्दिरसङ्ग्रहालय:

अत्र मन्दिरेण पूजापद्धतिभिश्च सम्बद्धाः सूचना: वस्तूनि च स्थापयिष्यन्ते।

💦वार्ताहर:-💦युवराज:। अयोध्यायां 750 कोटिरूप्यकै: विश्वस्तरीय: मन्दिरसङ्ग्रहालयस्य (भारतीयमन्दिरसङ्ग्रहालयस्य) निर्माणं करिष्यते। अस्मिन् सङ्ग्रहालये भारतीय संस्कृते: उद्भवत: आरभ्य अधुना पर्यन्तानां वस्तूनां संयोजनं सङ्ग्रहश्च विधास्यते। टाटा संस कॉरपोरेट सोशल रिस्पांसबिलिटी (सीएसआर) फंड इत्याख्येन निधिना एतस्य निर्माणं कारयिष्यते, तत्रैव पर्यटनविभागस्य पक्षत: एतदर्थं 25 (एकड़) इति पञ्च विंशतिः प्रहलमिता भूमि: नि: शुल्कं प्रदास्यते। पर्यटन-विभाग: एक रूप्यकस्य लीज इति भाटके एनां भूमिं पूर्वं नवति:वर्षेभ्यः पुनश्च नवति:वर्षेभ्यः सम्प्रदास्यति । ध्येयमस्ति यत् मन्त्रिमण्डलेन मंगलवासरे अस्मिन् प्रस्तावे नैजं साहमत्यं प्रदत्तम् अस्ति।

प्रदेशे साम्प्रतिकेषु दिनेषु तीर्थाटनं धार्मिकं पर्यटनं च जवीयस्या गत्या प्रवर्धितम् अस्ति। अत्र आगम्यमानानां पर्यटकानां संख्या अतोSपि वर्धितुं पर्यटनस्य अन्य-स्रोतांसि च समेधयितुं पर्यटनविभाग: भृशं कार्यं कुरुते। एतस्मिन्नेव क्रमे तस्य पक्षत: भारतीय-मन्दिर-सङ्ग्रहालयस्य कार्ययोजना सज्जीकृतास्ति। पर्यटनमन्त्री जयवीरसिंह: प्रत्यपादयत् यत् मन्दिर-सङ्ग्रहालये भारतीयसंस्कृते: उषाकालादेव समारभ्य आधुनिकसंस्कृतिपर्यन्तम् एकत्र एव समग्रमेव सूचनाविवरणं समुपलब्धं भविष्यति।

अत्र हि वेद-रामायण-मंदिर-पूजा-पद्धतिभि: साकं सम्बद्धानि प्रामाणिकानि वस्तूनि , तेषां उद्भव:, संस्कृति:, लाभश्चेत्यादिविषये विस्तृतरीत्या ज्ञानवर्धकं विवरणम् उपलब्धं भविष्यति। अत्र यथा पौराणिकी सूचना भविष्यति, तथैव तासाम् “आधुनिक वर्जन” इति आधुनिकीकृतं रूपमपि भविष्यति। अमुना प्रतिपादितं यत् “राम की पैड़ी” स्थाने गुप्तार घट्टम् निकषा एतदर्थं 25 प्रहलमिता भूमि: टाटा समवायाय प्रदास्यते येन कार्यं शीघ्रं समारभेत।

टाटा सीएसआर फंड इति निधि: 650 कोटिकानि रूप्यकाणि आधारिकावस्थापनासंरचनासुविधासु व्ययं करिष्यति। असौ प्रावोचत् यत् अनेन युवजना:, वैदेशिक-पर्यटका:, भारतीयसंस्कृति-सभ्यतासु रुचिमन्तश्चान्ये पर्यटका: अपि आकर्षिता: भविष्यन्ति। अमुना अग्रे प्रोक्तं यत् अयोध्यायां विश्वस्तरीय-मन्दिर संग्रहालयस्य निर्माणेन न केवलं अयोध्या एव प्रत्युत प्रदेशस्य अन्य-स्थलेषु अपि पर्यटनं वर्धिष्यते। एतेन प्रदेशे राजस्व वर्धनेन सहैव आजीविकानाम् नूतना: अवसरा: अपि उत्पत्स्यन्ते।

🔵 पर्यटनविभागस्य प्रमुखसचिव: मुकेशमेश्राम: प्रत्यपादयत् यत् सङ्ग्रहालये मन्दिरस्य पूर्णं स्वरूपं, दर्शनं, पौराणिककाले तस्य संकल्पना, पूजा नाम का? मन्दिरं कथमभूत् निर्मितम्, अस्य वैज्ञानिक: दृष्टिकोण:, अस्य विषये प्रामाणिकं विवरणादिकं भविष्यन्ति। युगपदेव समस्तस्य विश्वस्य मन्दिराणां प्रकारा:, आकारा:, तेषाम् आधुनिकं स्वरूपञ्चापि अत्र सुष्ठुतया प्रदर्शयिष्यते।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Check Also
Close
Back to top button