देश

रामदेवबाबाविश्वविद्यालयस्य छात्रः संस्कृतस्य अखिलस्तरीयायां अन्तर्स्पर्धायां पदकं प्राप्तवान्

केन्द्रीयसंस्कृतविश्वविद्यालयेन आयोजितं संस्कृत-ओलम्पियाड् यत् अखिलभारतीयस्तरे आयोजित: भवति।
रामदेवबाबाविश्वविद्यालयस्य CSE(AIML) इत्यस्य शाखाया:संस्कृताध्ययनकेन्द्रस्य छात्रः अथर्वः टेम्भुर्निकरः अस्यां स्पर्धायां सम्पूर्णे भारते ६१३तमं स्थानं प्राप्तवान्, तस्य पदकं विश्वविद्यालयेन पत्रालयद्वारा प्रेषितम्। अद्य रामदेवबाबाविश्वविद्यालयस्य कुलपतिः श्रीमान् एस. एस. मन्था तथा उपकुलपतिः राजेशः पाण्डेयः च वर्धापनानि दत्तवन्तौ।

समयेsस्मिन् विश्वविद्यालयस्य कुलसचिव: संजयः बोडखे , प्राचार्यः मनोजः चाण्डक्यः, विभागप्रमुखः, विद्युतविभागः/केन्द्राधिकारी भालचन्द्रः हरदासः, केन्द्र-शिक्षक: विनयसिंहराजपूत: आदय: उपस्थिता: आसन् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button