Uncategorized

संस्कृतभारत्या: प्रतिनिधयः SCERT इत्यस्य पंजाबनिदेशकेन संस्कृतशिक्षाविषये चर्चाम् अकरोत्

प्रेषक -अजय कुमार आर्य । पंजाबम् । मोहाली, १३ मई: संस्कृत भारती पंजाबस्य प्रतिनिधिमण्डलम् SCERT पंजाबस्य निदेशकं श्रीमती अमनिंदर कौर ब्रार इत्येन सह चर्चाम् अकरोत्, अस्मिन् चर्चायां पंजाबप्रदेशे संस्कृतशिक्षासुधारस्य आवश्यकता चर्चिता।

संस्कृत भारती पंजाबस्य अध्यक्षः डॉ. वीरेंद्र कुमार अकथयत् यत् संस्कृतं, अस्य भूमेः प्राचीनभाषा अस्ति, किन्तु पंजाबस्य शिक्षानीतौ एषा उपेक्षिता। सः अवदत् यत् गतत्रिंशत्वर्षेभ्य: विद्यालय-संस्कृतपाठ्यपुस्तकानि न परिवर्तितानि तथा च संस्कृताध्यापकानां कौशलविकासाय कोऽपि शिक्षणपाठ्यक्रमः न आयोजितः।

एतत्समस्यायाः समाधानाय संस्कृत भारती पंजाबेन SCERT माध्यमेन पंजाबसर्वकारम् पाठ्यक्रमस्य संशोधनं तथा आधुनिकयुगे उपयुक्तीकरणे सहाय्यं कर्तुं प्रस्तावितम्, विशेषाध्यापकप्रशिक्षणम् अपि प्रस्तावितम् , यस्मिन् अंतरराष्ट्रीयस्तरस्य संस्कृतविद्वांसः तथा शिक्षाविदा: विद्यालयाध्यापकान् प्रशिक्ष्यन्ति।

प्रतिनिधिमण्डलस्य सदस्यः डॉ. ओमन दीप: एतां चर्चां सकारात्मकम् अवदत्। सः अकथयत् यत् निदेशकः प्रशिक्षणमॉड्यूल्स इत्यस्य विषये अधिकं विवरणं याचितवती । प्रतिनिधिमण्डलः एतेभ्य: मेलनेभ्य: प्रभावयुक्तानां परिणामानाम् आशां करोति।
अस्मिन्नवसरे सहमंत्री श्री अजय कुमार आर्य अपि उपस्थितः आसीत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"
Back to top button