पंजाबसंस्कृत भारती

संस्कृतस्य यदि ज्ञानमस्ति तर्हि वयं आयुर्वेदस्य सर्वान् ग्रन्थान् पठितुं शक्नुमः _ डा. गोपी शर्मा

दयानन्द-आयुर्वेदिकचिकित्सकीयमहाविद्यालय: एवं चिकित्सालयः जालन्धरम्, संस्कृतभारती पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वाधाने आयोजितायाः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं

वार्ताहर:-अजयकुमार-आर्य:।पंजाब।दयानन्दआयुर्वेदिकचिकित्सकीय महाविद्यालय एवं चिकित्सालयः जालन्धरम्, संस्कृतभारती पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वाधाने आयोजितायाः दशदिवसीय-संस्कृतसम्भाषण-शिबिरकार्यशालायाः समापनं जातम् । समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्ज्वलनेन एवञ्च दीपमन्त्रेण जातम् । कार्यक्रमे छात्राः धन्वन्तरिवन्दना, स्वागतगीतम्, समूहगीतम्, स्वानुभवकथनम् , आयुर्वेदिकनाटकादिप्रस्तुतीः सम्प्रस्तुतवन्तः। कार्यक्रमस्य संयोजिका डॉ. रीटा उपाध्याय कार्यक्रमे आगतानां अतिथीनां परिचयं कारितवती । कार्यक्रमे मुख्यातिथिरूपेण संस्कृतभारत्याः विभागसंयोजकः सर्वेशचड्ढा महोदयः आसीत् । महोदयः science in Sanskrit इति विषयं समधिकृत्य चर्चां कृतवान् । महोदयः उक्तवान् यत् आयुर्वेदेन सह संस्कृतस्य कः सम्बन्धः अस्ति । विज्ञानस्य, आयुर्वेदस्य, संस्कृतस्य परस्पर सम्बन्धाः सन्ति । मुख्यवक्तारूपेण स्वामिप्रेमानन्दमहाविद्यालयस्य संस्कृतविभागस्य विभागाध्यक्षः डॉ. गोपी शर्मा आसीत् । ‘ संस्कृतं एवं आयुर्वेदस्य अन्तर्सम्बन्धः’ इति विषयं स्वीकृत्य महोदयः उक्तवान् यत् संस्कृतस्य यदि ज्ञानमस्ति तर्हि वयं आयुर्वेदस्य सर्वान् ग्रन्थान् पठितुं शक्नुमः ‌। महाविद्यालयस्य प्राचार्यः डॉ. चन्द्रशेखर शर्मा महोदयः आगतानाम् अतिथीनां पादपेन स्वागतं कृतवान् । महोदयः उक्तवान् यत् दयानन्दः महाविद्यालयः अति प्राचीनमहाविद्यालयः अस्ति । अस्मिन् महाविद्यालये प्रतिवर्षं छात्राः संस्कृतकार्यशालायां भागं गृह्णन्ति । आयुर्वेदस्य समानमेव वयं संस्कृतस्य प्रचार-प्रसारं करिष्यामः । महाविद्यालयस्य पक्षतः सर्वे रजनीविस्तारिकायाः सम्मानः: कृतवन्तः। कार्यक्रमस्य संयोजिका डॉ.रीटा उपाध्याय सर्वेषां धन्यवादं ज्ञापितवती । कार्यक्रमेऽस्मिन् डॉ. प्रवीणेन सह अशीतिः जनाः समुपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021

Leave a Reply

Back to top button