दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला
पञ्जाबविश्वविद्यालयस्य संस्कृतविभागेन च संस्कृतभारती-पञ्जाबप्रान्तेन समायोज्यते कार्यशाला

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागः संस्कृतभारती-पञ्जाबप्रान्तश्च इत्यनयोः संयुक्ततत्त्वावधानेन दशदिनात्मिका संस्कृतसम्भाषणकार्यशाला आयोजिता।
कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनेन, वैदिकमङ्गलाचरणेन च जातः । विभागाध्यक्षया डा॰ सुनीतावर्यया सर्वेषां अतिथीनां प्रतिभागिनां च औपचारिकरूपेण स्वागतं विहितम्। तया उक्तं यत् संस्कृतभाषायाः संवर्धनं एवञ्च पोषणम् अस्माकमेव दायित्वमस्ति, संस्कृतभाषया एव संस्काराः उपजायन्ते अनेनैव संस्कृत्याः अपि संरक्षणं भवति। उद्घाटनसत्रे मुख्यातिथिरूपेण संस्कृतभारत्याः उत्तरक्षेत्रसंगठनमन्त्री श्रीमान् नरेन्द्रवर्यः उपस्थिताः आसन् तेन स्वोद्बोधने उक्तं यत् – संस्कृतभाषा अस्माकं गौरवपूर्णा भाषा अस्ति सः अतीतम् उल्लिख्य, वर्तमानकाले संस्कृतभाषायाः आवश्यकता-प्रासङ्गिकतां च अतीव सरलतया स्पष्टतया च निरूपितवान्। कार्यक्रमस्य संचालनं विभागस्य सहायकाचार्येण डॉ. तोमीर शर्मणा कृतम्। अस्मिन् अवसरे विभागस्य प्राध्यापकः प्रो. वीरेंद्रकुमार-अलंकारवर्यः सर्वान् सम्बोधितवान्। महोदयः उक्तवान् यत् —विश्वस्य प्रथमं काव्यम्, कथा, नाटकं, नाट्यशास्त्रं च संस्कृतभाषायामेव विरचितम् अस्ति। अस्याः कार्यशालायाः प्रमुखमुद्देश्यमस्ति—संस्कृतभाषया व्यवहारः,प्रसारः, युवसु संस्कृतविषये जागरणं, भारतीय-संस्कृतेः संरक्षणं संवर्धनं च। अस्यां सम्भाषणकार्यशालायां मुख्यशिक्षिकारूपेण विस्तारिका रजनी पाठिष्यति। अस्मिन् अवसरे सनातनधर्मसंस्कृतमहाविद्यालयात् त्रयोविंशतिः संख्यकाः छात्राः समुपस्थिताः आसन्, विश्वविद्यालयस्य विविधानांविभागानां शिक्षकाः, संस्कृतप्रेमिणः, छात्राः, अध्यापकाः, समाजसेविनश्च उपस्थिताः आसन् । कार्यशालायाः प्रमुखोद्देश्यं न केवलं संस्कृतशिक्षणम् अपितु संस्कृतभाषां जीवने व्यवहारिकभाषारूपेण प्रतिष्ठापयितुमस्ति।