उत्तराखण्डकण्वनगरीकोटद्वार

उत्तराखण्डस्य मूलभावनानां गहनलेखक: “गिरीशतिवारी गिर्दा” जनै: आपदाविलेखे स्मृत:

हिमालयदिवसस्य अवसरे वृक्षमित्रसमित्या बालकानां मध्ये गोष्ठी आयोजिता।

गिरीशतिवारी गिर्दा इत्यस्य जनकवेरस्मिन् उत्तराखण्डस्य मूलभावनानां गहनं बोधं पूर्वमेव जातम्। तेन स्वकीयकाव्येन ता: भावा: जनसमाजे समर्प्य जना: चेतिता:। एषा व्यथा केवलं हिमालयस्य न, किन्तु सर्वस्य निष्क्रियसमाजस्यापि।

“अद्य हिमालय: त्वां आह्वयति, जाग्रहि जाग्रहि हे मम लाल!
मा अनुमन्यस्व अस्माकं न्यासवञ्चनं, मा अनुमन्यस्व अस्माकं विनाशम्।”

हिमालयदिवसस्य स्मरणे, जनान्दोलनेषु स्वकाव्येन चेतयन्तं जनकविं गिरीशतिवारीगिर्दम् सर्वे स्मृतवन्तः। अस्मिन् अवसरे कोटद्वार-वृक्षमित्रसमित्याः सौजन्येन “ई-टेक्नोमाइण्ड” नाम्नि संस्थाने बालकानां मध्ये गोष्ठी आयोजिता।

आरम्भे बालकैः योगस्य सुन्दरं प्रदर्शनं कृतम्।
मुख्यवक्तृत्वं मितेश्वरानन्दः, सहायक-आयुक्तः (जी.एस्.टी., कोटद्वारम्) इत्यनेन कृतम्। सः बालकान् श्रोतॄंश्च सम्बोध्य हिमालयस्य महत्वं प्रतिपादितवान्। दैनन्दिनजीवने लघ्वभ्यासनां परिवर्तनैः अपि वयं प्रकृतिं च हिमालयं च रक्षितुं शक्नुम इति सः अभिहितवान्।

एकता रावत, स्कॉलर्स् अकादमी प्रधानाचार्या च, प्रशान्तः कुकरेति, ज्ञानवृक्ष-विद्यालयस्य निर्देशकश्च, प्रकृतिसंरक्षणस्य, हिमालयस्य, चिरकालं पर्वतेषु भवन्तः भूक्षरणप्रश्नश्च विषये जागरणं कृतवन्तः।

कार्यक्रमस्य अन्ते सर्वैः गिरीशतिवारी गिर्दस्य पङ्क्तयः सामूहिकरूपेण गीतवन्त: –

उत्तराखण्डो मम मातृभूमिः।
मम मातृभूमिः, मम पितृभूमिः।
हे भूमे, ते जयजयकारः, मम हिमालय:।
केशरमुकुटे ते उज्ज्वलिते।
गङ्गायाः धारा अपि प्रकाशते।
मम हिमालय:।
हिमालयस्य ते जयजयकारः। मम हिमालय:॥

कार्यक्रमस्य संचालनं ई-टेक्नो माइण्ड संस्थापकः अजयजोशी इत्यनेन कृतम्। अस्मिन् अवसरे मितेश्वरानन्दः (सहायक-आयुक्तः, जी.एस्.टी. कोटद्वारम्), एकता रावत: (प्रधानाचार्या, स्कॉलर्स् अकादमी), प्रशान्तः कुकरेति (संस्थापकः, ज्ञानवृक्षः), शिवं नेगी (अध्यक्षः, ग्रीन-आर्मी-उत्तराखण्डः), उत्कर्षः नेगी (महासचिवः), स्वयंसेवकाः सुशान्तः कोहली, अभयजुयाल:, पत्रकारः अम्बेशपन्तः (डिस्कवर-उत्तराखण्ड 24), “ई-टेक्नो माइण्ड” इत्यत: समस्तसहायका:, बालकाः, अभिभावकाः च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button