पितृपक्षोऽयं विशिष्यते
डॉ. रमेशचन्द्रपाण्डेय: जगद्गुरुशङ्कराचार्यज्योतिषपीठस्य धर्माधिकारी उत्तराखण्डविद्वत्सभायाः संरक्षकः श्रीज्ञानीगोलोकधामोत्तराखण्डस्य अध्यक्षः ज्योतिषाचार्यश्च ।

श्राद्धकर्मणो महत्त्वं सनातनधर्मे विशेषतया निरूपितं विद्यते। यः शान्तचित्तः विधिपूर्वकं श्रद्धया श्राद्धं करोति, सः पापमलान्मुक्तः पुनर्जन्मनिबन्धनात् विमुक्तो भवति।
“योऽनेन विधिना श्राद्धं कुर्याद्वै शान्तमानसः।
व्यपेतकल्मषो नित्यं याति नावर्तते पुनः ॥
(कूर्मपुराणवचनं, हेमाद्रौ समुद्धृतम्)
मृत्युकाले जीवात्मा स्थूलशरीरं त्यक्त्वा सूक्ष्मं “आतिवाहिकं” शरीरं धारयति, यत् स्वप्राणैरेव निर्मितं भवति
“तत्क्षणात् सोऽथ गृह्णाति शारीरं चातिवाहिकम्।
अङ्गुष्ठपर्वमात्रं तु स्वप्राणैरेव निर्मितम् ॥
(स्कन्दपुराणे १।२।५०।६२)
एतत् सूक्ष्मशरीरं न मातृपितृसम्भवं, किन्तु केवलं कर्मफलभोगहेतु निर्मितं
“तद्रूपं देहमन्यत् प्रपद्यते।
तत्कर्मयातनार्थे च न मातृपितृसम्भवम् ॥
(ब्रह्मपुराणे २१४।४६)
मनुष्यस्यैव विशेषोऽयं यत् स एव पुण्यपापयोः सञ्चयं करोति, तस्मात् मृत्युपश्चात् यमलोकं गत्वा तत्र स्वकृतकर्मफलानि भुङ्क्ते।
“मनुष्याः प्रतिपद्यन्ते स्वर्गं नरकमेव वा।
नैवान्ये प्राणिनः केचित् सर्वं ते फलभोगिनः ॥
शुभानामशुभानां वा कर्मणां भृगुनन्दन।
सञ्चयः क्रियते लोके मनुष्यैरेव केवलम् ॥
तस्मान् मनुष्यस्तु मृतो यमलोकं प्रपद्यते।
नान्यः प्राणी महाभाग फलयोनौ व्यवस्थितः ॥
(विष्णुधर्मोत्तरपुराणे २।११३।४–६)
जीवात्मा अतीव सूक्ष्मः, यः बालाग्रस्य शतांशस्य पुनः शतधा विभागेन तुल्यो दृश्यते—
“वालाग्रशतभागस्य शतधा कल्पितस्य च।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥
(श्वेताश्वतरोपनिषद् ५।९)
श्राद्धं पितृकर्मण्यपि प्रसिद्धम्। देवताः केवलं श्रद्धाभावमवलम्बन्ते, पितरस्तु वाक्यक्रियाशुद्धिम् अपेक्षन्ते—
“पितरो वाक्यमिच्छन्ति भावमिच्छन्ति देवताः।”
एवं पितृकार्ये विशेषं सावधानता अपेक्ष्यते। तस्मात् श्राद्धकर्म न केवलं पितॄणां तृप्तये, किन्तु स्वस्य पापपरिहाराय, पुनर्जन्मनिवृत्तये च परमावश्यकं परिगण्यते।
इत्येवं गीताप्रेसगोखरपुरतः प्रकाशितपितृकर्मणो महत्वं द्रष्टव्यम्।
श्राद्धकर्मणस्तत्त्वं यदि समीचीनतया मन्येत, तर्हि अस्य कर्तव्यस्य महत्त्वं केवलं लौकिकपक्षे नैव तिष्ठति, अपि तु आध्यात्मिकमपि फलप्रदं भवति। पितॄणां कृते यच्छ्रद्धया तर्पणं क्रियते, तत् अस्मिन्नेव लोके सन्ततेः आयुरारोग्यसमृद्धये कारणीभवति, परत्र तु पितॄणां शान्तिपरम्परायाः साधनं दृश्यते। श्राद्धं नाम केवलं मृतकस्य कृते कर्तव्यं न, अपि तु कर्तुः आत्मशुद्धये, मनसः प्रसादाय, चित्तस्य स्थैर्याय च अवश्यं भवति। यत्र जीवात्मनः सूक्ष्मत्वं, कर्मफलानां अपरिहार्यता, पितृकृतज्ञता च विचार्यन्ते, तत्र श्राद्धकर्मणः आवश्यकता स्वयमेव प्रतिपन्ना भवति।
सनातनधर्मे सर्वे संस्काराः जीवितस्य परिपाकाय कल्पिताः, किन्तु श्राद्धकर्म विशेषतः जीवितस्य परं ध्येयम् अवगाहयति—“पितृॄणात् मुक्तिः” इत्येव। अस्य आचरणेन सन्ततयस्स्वस्य पूर्वजेभ्यः कृतज्ञता दर्शयन्ति, धर्ममार्गे प्रतिष्ठां लभन्ते, तथा च यमलोकादारभ्य स्वर्गपर्यन्तं जीवात्मनः कल्याणाय साधनं कुर्वन्ति। तस्माद् अस्माभिः सर्वथा श्रद्धया, शुद्धभावेन, सावधानतया च पितृकार्यं समापादनीयम्। इदं धर्मस्य स्थैर्यं, कुलस्य संरक्षणं, आत्मनो मोक्षमार्गश्च सुनिश्चितङ्करोति।