सत्यसाईं-मुरलीधर-आयुर्वेदिक-महाविद्यालय-मोगा इत्यत्र सम्पन्ना दश-दिवसीय-संस्कृतसम्भाषण-कार्यशाला

सत्य-साईं-मुरलीधर-आयुर्वेदिक-एवं-चिकित्सीयमहाविद्यालयः मोगा इत्यत्र संस्कृतभारत्यीपञ्जाबप्रान्तेन दश-दिवसीय-संस्कृतसम्भाषण-कार्यशालायाः समायोजनं कृतमस्ति यस्याः अद्य समापनं सञ्जातम्। समापनकार्यक्रमस्य शुभारम्भः दीपप्रज्वानेन एवञ्च दीपमन्त्रेण सञ्जातः। कार्यक्रमे छात्रछात्राभिः सरस्वतीवन्दना, सङ्कल्पः, उद्देश्यगीतम्, अनुभवकथनम्, नाटकम्, गीतमाध्यमेन वस्तुपरिचयः इत्यादयः प्रस्तुत्यः कृताः । अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण साधुः श्रीमान् कमलजीत-सिंह-शास्त्री-महोदयः आसीत्। महोदयेन ‘आयुर्वैदिक-पद्धत्यां वैद्यानां कृते संस्कृतं किमर्थम् आवश्यकम्’ विषये निजविचाराः प्रस्तुताः। महोदयेन उक्तं यत् आयुर्वेदस्य सम्यक् ज्ञानं भवितव्यमेव यतोहि रुग्णान् सुवैद्यः एव स्वस्थं कर्तुं शक्नोति। तेन आयुर्वेदे उद्धृतानां त्रिविधदुःखानां विषये अपि उक्तम्।
कार्यक्रमेऽस्मिन् शिक्षकरूपेण विस्तारकः मनीशः संयुक्तः आसीत् यत्र ६० प्रशिक्षुकाः भागं गृहीतवन्तः । अस्मिन्नवसरे प्राचार्येन डॉ. पी.सी. सिङ्गलामहोदय: आगतानाम् अतिथीनाम् स्वागतं कृतम् । कार्यक्रमेऽस्मिन् संहिता विभागस्य अध्यक्षा डॉ. रैनी , डॉ. दीपशिखा, संस्कृत अध्यापकः डॉ. जितेन्द्रः आचार्येण सह अन्याः अध्यापकाः गणमान्यसदस्याः च समुपस्थिताः आसन्।