पंजाबसंस्कृत भारती

भादसों-नगरे श्रीगौशालायां श्रीगीता–ज्ञान–केन्द्रस्य उद्घाटनम्

संस्कृतभारतीपञ्जाबप्रान्तस्य सहयोगेन भादसों नगरे स्थितायां श्रीगौशालायां गीता–ज्ञान–केन्द्रस्य शुभारम्भः सञ्जातः। केन्द्रसञ्चालकः संस्कृतभारती–जिलामन्त्री शास्त्री गगनदीपपाठकः अवदत् यत् इदं श्रीगीता–ज्ञान–केन्द्रं सप्ताहे शनि-रविवासरयोः च चलिष्यति।
अस्मिन् केन्द्रे श्रीमद्भगवद्गीतायाः श्लोकानां शुद्धोच्चारणं कारयित्वा तेषां सरलव्याख्या अपि करिष्यते। येन श्रोतार: श्रीमद्भगवद्गीताया: गूढरहस्यानि ज्ञातुं शक्नुवन्ति।

अस्मिन् श्रीगीता–ज्ञान–केन्द्रस्य उद्घाटने गौशालायाः प्रधानः श्री अमितकोहली, संस्कृतभारती–विस्तारकः मनीषः, वैद्यः कपिलदेवगनः, वैद्यः हरिशरणपाठकः, उपाध्यायः अशोकशर्मा, केवलरामः, चिरागशर्मा, विलासवती, रेखा शर्मा, सपना रानी, अर्चना देवी च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button