संस्कृतशिक्षणस्य नवदिशि द्वादशदिवसीयाकार्यशाला
संस्कृतभारत्या: भारतीयप्रौद्योगिकीसंस्थानस्य संयुक्ताश्रयेण समायोज्यते कार्यशाला

संस्कृतभारत्याः रुडकीजनपदशाखायाः भारतीयप्रौद्योगिकीसंस्थानस्य रुडकीपरिसरस्थस्य (IIT Roorkee) संस्कृतसङ्घस्य तत्रत्य प्रबन्धनविद्याविभागस्य च संयुक्ताश्रयेण संस्कृतशिक्षणं नूतनां दिशं नेतुं द्वादशदिवसीया शिक्षकप्रशिक्षणकार्यशाला आयोज्यते ॥ इयं कार्यशाला पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अगस्तमासस्य अष्टादशदिनाङ्कतः समारभ्य ऊनत्रिंशद्दिनाङ्कपर्यन्तं भविष्यति ॥

अस्याः कार्यशालायाः व्यापकाय प्रचाराय प्रसाराय च संस्कृतभारत्या रुडकीजनपदाध्यक्षा शर्मभारतीमहाभागा जनपदमन्त्रिणी हिन्दूश्रद्धामहोदया जनपदशिक्षणप्रमुखः गौडविष्णुदत्तः जनपदसम्पर्कप्रमुखः जखमोलाराहुलश्च मिलित्वा हरिद्वारजनपदस्य मुख्यशिक्षाधिकारिणं तथैव उत्तराखण्डसंस्कृतविश्वविद्यालयस्य हरिद्वारस्थस्य अधिकारिणः उत्तराखण्डराज्ये संस्कृतशिक्षायाः सहाय्यकनिदेशकं विद्वद्वर्यम् आर्यवाजश्रवसमहाभागं च सन्दृश्य वार्तालापं चक्रुः ॥
अस्मिन् सम्भाषणप्रसङ्गे कार्यशालायाः रूपरेखायाः उद्देश्यानां शिक्षकाणां च वृत्त्युन्नयने तस्याः परममहत्त्वस्य विषये विस्तरेण चर्चा समभूत् ॥ प्रसन्नाः सर्वेऽधिकारिणः अमुं श्लाघनीयं प्रयत्नं भृशं प्रशशंसुः अधिकतमान् शिक्षकान् अस्मिन् प्रशिक्षणावसरे भागं ग्रहीतुं प्रेरयिष्यामः इति दृढम् आश्वासनं च प्रददुः ॥
संस्कृतभारत्याः अयं सुदृढो विश्वासो वर्तते यत् अनेन नूतनपद्धत्या प्रशिक्षणेन संस्कृतशिक्षणस्य गुणवत्तायाम् अभूतपूर्वः विकासो भविष्यति संस्कृततः समृद्धिः इति मङ्गलमयः सन्देशश्च सर्वत्र जनमानसे स्थास्यति ॥







