उत्तराखण्डकण्वनगरीकोटद्वार

दुगड्डानगरे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

शिक्षका: पदोन्नतिं बिना एव सेवानिवृत्ता: भवन्ति

अद्य पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्यविकाशखण्डशाखया एकदिवसीयं विरोधप्रदर्शनं सफलतापूर्वकमनुष्ठितम् । पौडीजनपदस्य सर्वेषु पञ्चदशसु विकाशखण्डेषु सङ्घस्य राष्ट्रियाह्वानमनुसृत्य शिक्षकाः स्वस्य चिरलम्बिताः पदोन्नतीः वर्तमानशिक्षासत्रे स्थानान्तरणं तथा च प्रधानाचार्यपदाय साक्षाद्भर्तीप्रक्रियायाः विरोधं च उद्दिश्य क्षेत्रशिक्षाधिकारिणां कार्यालयेषु समवेता अभूवन् ।

https://youtube.com/shorts/b08xtnN-0Ig?si=eavptdZtvavzQzT-

शिक्षकाणामयं घोषः यद् एकस्मिन्नेव पदे नियुक्तास्ते तस्मादेव पदात् सेवानिवृत्ताश्च भवन्ति यावज्जीवं पदोन्नतेः सुखं नैव जानन्ति । प्रशासनस्य पिहितेषु पदोन्नतिकपाटेषु सङ्घेनायं यः दृढः प्रहारः कृतः तस्यानुगूँजः सकले उत्तराखण्डेऽश्रूयत । इदानीं शासनेनैव निर्णेतव्यं यत् किं ते शिक्षकाणां न्याय्यान् अभ्यर्थनान् अङ्गीकृत्य शिक्षायाः श्रेयसे प्रयतन्ते उत वा विरोधस्य दमनस्य पीडनस्य च मार्गं स्वीकुर्वन्ति । नीतिशास्त्रेष्वपि प्रोक्तं यत्कर्मकरेभ्यः काले भृतिप्रदानं पदोन्नतिप्रदानं च राज्ञः परमं कर्तव्यमिति ।

यदि शासनमस्माकं न्यायसङ्गतान् अभ्यर्थनान् न स्वीकरोति हठधर्मितापूर्णं व्यवहारमाचरति च तर्हि आगामिनि सप्तविंशतितमे दिवसे पौडीजनपदस्य मुख्यकेन्द्रे भविष्यति महाविरोधप्रदर्शने अस्माभिः सर्वेभ्यः अधिकाधिकसंख्यायां भागो ग्रहीतव्यः येन शासनोपरि विभागोपरि च सम्यक् प्रभावः स्यात् । स्वसदस्यानां हितानां रक्षणार्थमेव सङ्घटनानां मुख्यं कर्तव्यं भवति ।

सङ्घेनाहूतं यत् शासनस्य कस्यापि दमनकारिणः उत्पीड़कस्य वा आदेशात् नैव विचलितव्यम् । यदि शासनं किमपि तादृशं कर्म करोति तर्हि अस्माभिः अधिकेन सङ्घर्षेण प्रतिरोधः करणीयः ऐक्यभावेन च आन्दोलनमिदमग्रे नेयम् । पौडीमुख्यकेन्द्रे भवतां क्रान्तिकारिणः स्वागतस्य कृते वयं सर्वे सज्जाः स्मः । भवतां शुभागमनमस्माकमान्दोलनस्य दीपशिखामधिकं प्रज्वालयिष्यति ।

अस्मिन्नवसरे दुगड्डाख्ये खण्डशिक्षाधिकारिणः कार्यालये सङ्घस्य सदस्यैः स्वकीयाभ्यर्थनानामेकं ज्ञापनपत्रं समर्पितम् । खण्डशिक्षाधिकारिणः पदे तदानीं राजकीय-इण्टर-महाविद्यालय-झण्डीचौडस्य प्रधानाचार्याः नेगिमहोदयाः कार्यं पश्यन्ति स्म । तेभ्यः पत्रं दत्त्वा शिक्षकाः स्वविचारान् प्राकटयन् । नेगिमहोदयेनोक्तं यत् शिक्षकाणामभ्यर्थना वस्तुतो न्याययुक्ताः सन्ति किन्तु अस्माभिः स्वकर्तव्यानां निर्वहणमपि अवश्यं करणीयमिति । अवसरेऽस्मिन्नन्यैरपि सदस्यैः स्वविचाराः प्रकटीकृताः ॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button