उत्तराखण्डकण्वनगरीकोटद्वार

जानकीनगर-कोटद्वारे रितेशशर्मासरस्वतीविद्यामन्दिरे वैदिकगणितप्रांतीयमहोत्सवः २०२५ सम्पन्नः

जानकीनगर-कोटद्वार-पौड़ीगढ़वालस्थिते रितेशशर्मासरस्वती- विद्यामन्दिरे विद्याभारत्या: अखिलभारतीय-शिक्षासंस्थानसंबद्धया भारतीय-शिक्षासमित्या उत्तराखण्डेन सह आयोजितः प्रांतीयः वैदिकगणितमहोत्सवः २०२५ समापनं रंगारङ्गकार्यक्रमेण अभवत्।

उद्घाटनसत्रे मुख्यातिथिरूपेण कृषि-मण्डी-समितेः पौड़ी-अध्यक्षः सुमन कोटनाला, रानीपुरप्रधानाचार्यः लोकेन्द्र अंथवालः, प्रतियोगितापर्यवेक्षकः कुमौं-सम्भागनिरीक्षकः सुरेशानन्द-जोशी, प्रतियोगिताप्रान्तसंयोजकः दिनेशभट्टः च उपस्थिताः आसन्। एते सर्वे आचार्यवर्याः भगवत्याः सरस्वत्याः सन्निधौ दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भं कृतवन्तः।

ततः प्रान्तसंयोजकस्य दिनेशभट्टस्य निर्देशनाधीनं उत्तराखण्डराज्यस्य चतुर्दशसंकुलात् आगतानां १८० छात्रछात्राणां बाल-किशोर-तरुणवर्गेषु वैदिकगणितप्रश्नमञ्चे, गणितप्रदर्शने, गणितप्रयोगेषु गणितपत्रवाचने च सहभागः अभूत्।


प्रतियोगिताफलानि

बालवर्गे प्रश्नमञ्चे अर्णववर्मा, ईशानसिंहः, अंशुलवर्मा च प्रथमस्थानम् अलभन्त। पत्रवाचने अहानाधीमान्, प्रयोगात्मकविषये आरवः, प्रदर्शने आरोहीगोयल:, आस्थासैनी, सोनाक्षीसेमवालः च विजेतारः अभवन्।

किशोरवर्गे प्रश्नमञ्चे अंशुलवर्मा, कुलवंशी, प्रियांशवर्मा च विजेतारः अभवन्। पत्रवाचने कुशाग्रराठौरः, प्रयोगात्मकविषये अनमोलरावतः, प्रदर्शने नन्दिनीचौधरी, आकृतिगोयल:, राधिकासेमवालः च प्रथमस्थानम् अलभन्त।

तरुणवर्गे प्रश्नमञ्चे धीरेन्द्रः, अंशुतिवारी, धर्मेन्द्रगंगवारः च विजेतारः अभवन्। पत्रवाचने रिया, प्रयोगात्मकविषये यश: अग्रवालः, प्रदर्शने स्वाति:, अंशु:, वंशिकाचौधरी च प्रथमस्थानम् अलभन्त।

समापनसत्रे विद्या-भारत्याः प्रदेशनिरीक्षकः डॉ. विजयपालसिंहः छात्रछात्रान् सम्बोध्य अवदत्— “विद्याभारत्याः संस्कारयुक्ता शिक्षा छात्रेषु संस्कारं, सहयोगं, समर्पणं, अनुशासनं च रोपयति। ज्ञानं, ध्यानं, धैर्यं, परिश्रमः इति चत्वारः मूलबिन्दवः छात्रैः अवश्यं स्वीकर्तव्याः। एतेन प्रत्येकः छात्रः राष्ट्रहिते कार्यं कर्तुं समर्थः भविष्यति।”

अन्ते सर्वे विजेतारः छात्राः पुरस्कारैः सम्मानिताः। कार्यक्रमस्य संचालनं आचार्यः रोहितबलोदी कृतवान्। निर्णायकतया प्रो. डॉ. अजयसिंहः, प्रो. डॉ. पवनभट्टः, मनीषबिष्टः, सन्तोषसिंहनेगी, राहुलसिंहः, नमनभटनागरः च उपविष्टाः आसन्।

अस्मिन्नेव अवसरे चतुर्दशसंकुलात् आगताः छात्रछात्राः, संरक्षकाचार्याः, गढ़वाल-सम्भागनिरीक्षकः नत्थीलालबंगवालः, आयोजकविद्यालयस्य प्रधानाचार्यः मनोजकुकरेती, प्रांतीयप्रतियोगिताटोलिसदस्याः योगराजसिंहः, अमितखरे, प्रदीपचौहानः, संजयगुप्तः, तेजप्रकाशः, प्रतियोगिताप्रमुखः प्रधानाचार्यः रविन्द्रसिंहनेगी, त्रिवेन्द्रचौहानः, नीरज: अग्रवालः, राजेशचौहानः, विद्यालयप्रबन्धसमितिः, आचार्यवृन्दः च सानन्दं उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button