उत्तराखण्डदेहरादूनसंस्कृत भारती

अथ हिमवत्प्रस्थे पुण्यसलिलया गङ्गया पावितधरातले देहरादूनाख्ये नगरे संस्कृतभारत्या श्रीगङ्गोद्धारसेवासमित्या च संयुक्तोद्यमेन गीर्वाणवाणीसप्ताहस्य सन्दर्भे महान् यज्ञसमारोहः समतिष्ठत।

चन्द्रबनीस्थे गौतमकुण्डपरिसरे विराजिते श्रीबाबाबालकनाथमन्दिरे महतः श्रीहेमराजठाकुरस्य पावने सान्निध्ये संस्कृतभाषाया भारतीयसंस्कृतेश्च संरक्षणाय संवर्धनाय च कृतसङ्कल्पैः सुधीभिरेष यज्ञो व्यधायि। तत्र पुण्यदिने वैदिकमन्त्रघोषैर्दिशो मुखरयन्तः समवेता जना हविर्भिर्देवतास्तर्पयन्ति स्म। अनन्तरं संस्कृतभाषायां सामूहिकी प्रार्थना सांस्कृतिककार्यक्रमाः संस्कृतसाहित्यस्य वितरणं चेत्यादिभिः विविधैरनुष्ठानैः समाजे राष्ट्रियचेतनाया जागरणमक्रियत।

कार्यक्रमस्याध्यक्षपदमलङ्कुर्वाणः संस्कृतभारत्या: विभागसंयोजको व्यासनागेन्द्रदत्तो महाशयः संस्कृतभाषाया: महिमानं वर्णयन्निदमवोचत् यदस्य समारम्भस्येदमेव मुख्यं लक्ष्यमस्ति यद् गीर्वाणवाण्या भारतीयसंस्कृतेः सनातनानां परम्पराणां च यशः पताकेव सर्वजनेषु प्रसारयेत्।

अत्रान्तरे उत्तराखण्डविद्वत्सभाया महासचिवो भट्टदिनेशप्रसादः मुख्यवक्तृत्वेन तथा पन्तपीठसंस्थापकाध्यक्षः पन्तमकेशो विशिष्टातिथित्वेन मञ्चमलमकार्ष्टाम्। तावुभावपि स्वकीयैरोजस्विभिर्वाग्भिः समुपस्थितानां कार्यकर्तॄणां चेतांसि समतेजयताम्। सभैतस्या: कोषाध्यक्षो डबरालाजयोऽपि स्वोपस्थित्या सर्वानुत्साहयति स्म।

कार्यक्रमस्यास्य प्रेरणास्रोतस्तत्रभवन् जिलाध्यक्षो बिजल्वाणो डा.रामभूषणो महाभागः स्वकीये प्रास्ताविके भाषणे सप्ताहस्य समग्रं विवरणं प्रदाय सर्वानभ्यभाषत। गीताशिक्षणप्रमुखः कुकरेतिर्योगेशोऽप्यवदद् यदनेन सामूहिकयज्ञेन संस्कृतसाधनया च राष्ट्रियचेतनाया भावो हृदयेषु जागर्तिं नीतः। अन्ते डा. प्रदीपसेमवालः समागतेभ्यः सर्वेभ्यः साधुवादान् वितीर्य संस्कृतनिष्ठैर्भवितव्यमिति सर्वानप्रैषयत्।

कार्यक्रमसंयोजकः मैठाण्याचार्यो धीरजो न्यगदद् यदयं महायज्ञः संस्कृतसप्ताहस्य बह्वनुष्ठानेषु मुख्यतमं सोपानमस्ति येन समाजे स्वसंस्कृतिं प्रति श्रद्धा गौरवभावश्च वर्धते। तेन सर्वेऽपि नागरिकाः कुटुम्बिनश्छात्राः संस्कृतसेवकाश्चास्मिन् पुण्यकर्मणि सहभागिनो भवेयुरित्याह्वानमपि कृतम्।

समारोहेऽस्मिन् संस्कृतभारत्याः प्रमुखकार्यकर्तारो बहवः सोत्साहं भागमगृह्णन्। तेषु रायवालाखण्डसंयोजको मैठाणीनीतिशः रायवालाखण्डसहसंयोजिका पुरोहितडोबीना दूनविश्वविद्यालयस्य छात्रसंयोजिका कनिका तथा सहकार्यकर्त्र्यो नेगीमाधुरी बुटोलानीता आनन्दीदेवी सोनाली वाणी मैठाण्याद्विकश्च विशेषतः समुपस्थिता आसन्। अपि च स्थानीयजनप्रतिनिधयः संस्कृताध्यापकाश्छात्रा विद्वांसोऽनेके च संस्कृतप्रणयिनो नागरिकाः सक्रियं भागं गृहीत्वा कार्यक्रमस्य शोभां परां कोटिमनयन्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button