पटियालाजनपदस्य नाभानगरे संस्कृतभारतीद्वारा संस्कृतसप्ताहामुपलक्ष्य गीतगायनश्लोकोच्चारणप्रतियोगितायाः आयोजनम्

पञ्जाब: ।।
पटियालाजनपदस्य नाभानगरे संस्कृतभारतीद्वारा संस्कृतसप्ताहामुपलक्ष्य गीतगायनस्य श्लोकोच्चारणस्य प्रतियोगितायाः आयोजनमभवत् । प्रतियोगितेयं पी.एम्. श्री राजकीय-मॉडल-माध्यमिक-विद्यालय-नाभायाम् आसीत्। कार्यक्रमः दीप प्रज्ज्वालननेन, दीपमन्त्रेण, सरस्वतीवन्दनया, ध्येयमन्त्रेण च अभवत् । एषा प्रतियोगिता द्वयोः चरणयोः आसीत् । प्रथमे चरणे षष्ठकक्षातः अष्टकक्षापर्यन्तम् छात्राः आसन् । द्वितीये चरणे नवमकक्षातः दशमकक्षापर्यन्तम् छात्राः आसन् । षड् विद्यालयेभ्यः प्रतिभागिनः अत्र भागं गृहीतवन्तः।
गीतप्रतियोगितायां (६-८ कक्षा) प्रथमस्थाने हरलीन, द्वितीयस्थाने प्रणीतकौर, तृतीयस्थाने भूमिका तथा (९-१० कक्षा) प्रथमस्थाने शरणजीतकौर, द्वितीयस्थाने तीक्षणा शर्मा, तृतीयस्थाने जाह्नवी स्थानं प्राप्तवन्तः । एवमेव श्लोकोच्चारणप्रतियोगितायां (६-८ कक्षा) प्रथमस्थाने शिवांशः, द्वितीयस्थाने हीरतः, तृतीयस्थाने शिवपाली तथा (९-१० कक्षा) प्रथमस्थाने कृतिका, द्वितीयस्थाने तीरिता शर्मा, तृतीयस्थाने महिमा स्थानं प्राप्तवन्तः । अस्यां प्रतियोगितायां मुख्यातिथि रूपेण श्रीमन् ललितमहोदयः आसीत् । महोदयेन ‘संस्कृत भाषायाः महत्त्वम्’ इत्यस्मिन् विषये प्रबोधनं दत्तम् ।
कार्यक्रमेsस्मिन् निर्णायकगणेषु श्रीमन् डॉ. निगमस्वरूप:, श्रीमन् राजेन्द्र:, श्रीमती ज्योति शर्मा आसन् । आहत्य २७ छात्राः स्पर्धालवः स्पर्धायां स्वप्रतिभाप्रदर्शनं कृतवन्तः । संस्कृतभारती द्वारा छात्रेभ्यः स्मृतिचिन्हं , पदकं, प्रमाणपत्रं च दत्तम् । कार्यक्रमेsस्मिन् सन्दीपः, रचना, बलवन्तः, इत्यादयः आसन् ।