उत्तराखण्डनैनीताल

संस्कृतभाषा सनातनधर्मस्य पृष्ठवंश इवास्ति– “नवीनचन्द्रवर्मा”

श्रीसनातनधर्मसंस्कृतमहाविद्यालये समायोजिता राष्ट्रियगोष्ठी

हल्द्वानीनगरे श्रीसनातनधर्मसंस्कृतमहाविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्यानुदानेन अगस्तमासस्यैकादश्यां तिथौ एका राष्ट्रियशोधसङ्गोष्ठी समायोजिता

कार्यक्रमस्य प्रथमसत्रस्यारम्भः अतिथिगणैः संयुक्ततया दीपप्रज्वालनेन कृतः ततः परं हिमालयसङ्गीतशोधसमित्याः कलाकारैः मम शिरसि हस्तं निधेहि मातः ज्ञानस्य ज्योतिं प्रज्वालय इति प्रार्थनया सह सरस्वतवन्दना स्वागतगीतं च सुमधुरं प्रस्तुतम्

अवसरेऽस्मिन् मुख्य अतिथिपदमलङ्कुर्वाणो राज्यमन्त्रिस्तरीयः वर्मा नवीनचन्द्रः स्वविचारान् प्रकटयन्नवदद् यत् संस्कृतभाषा सनातनधर्मस्य पृष्ठवंश इवास्ति अस्याः प्रचाराय प्रसाराय च वयं सर्वे प्रयतेमहीति तमेव क्रममनुसरन्तो हरिद्वारतः समागताः डो बृजेन्द्रकुमारसिंहदेवाः प्रोक्तवन्तो यत् श्रीसनातनसंस्कृतमहाविद्यालयमेनं राष्ट्रियसंस्कृतसंस्थानस्य श्रेण्याम् आनेतुं विद्यालयसमित्या शिक्षकैश्च शैक्षिकगुणवत्तायामुपरि ध्यानं देयम्

मुख्यवक्तृत्वेन राष्ट्रपतिपुरस्कारेण समर्चिताः डो कीर्तिबल्लभशक्टामहोदया मानसखण्डमधिकृत्य स्वव्याख्यानेन श्रोतॄन् समवर्धयन् तेनोक्तं यदद्यत्वे उत्तराखण्डराज्यम् आध्यात्मिककेन्द्ररूपेण ख्यातमस्ति अत्रस्थमन्दिराणां पौराणिकतायाः संरक्षणमतीवावश्यकम् अध्यक्षीयं भाषणं प्रददद्भिः डो गोपालदत्तत्रिपाठिभिः प्रतिपादितं यत् संस्कृतभाषास्माकं देशस्य प्राणभूता सशक्ता च वागस्ति तस्याः सम्भाषणाय भाषाविकासाय च सततं प्रयतितव्यमित्यस्माकमुद्देश्यं भवेत् विद्यालयसमित्या अध्यक्षा गोस्वामीमोहनगिरिमहोदया अकथयन् यदागामिन्याः सन्ततेः लाभाय मन्दिराणां संस्कृतभाषायाश्च संरक्षणम् अध्ययनं चावश्यकमेव

अथ कार्यक्रमस्य द्वितीयसत्रे सत्राध्यक्षपदं भूषयद्भिः डो नवीनचन्द्रबेलवालमहोदयैः कथितं यद्विश्वस्मिन् संस्कृतभाषां शिक्षितुं वर्धमाना एषा लालसा कञ्चन नूतनमायामं स्थापयिष्यति मुख्यवक्तृरूपेण डो भारतीनारायणभट्टाः स्ववक्तव्ये न्यवेदयन् यद् रानीबागनगरे स्थिता चित्रेश्वरशिला स्वकीयभारतीयसंस्कृतेः पौराणिकमहत्त्वस्य चाद्भुता रचना विद्यते

ततः रामनगरमहाविद्यालयस्य सहायकाचार्यैः डो मूलचन्द्रशुक्लैः मानसखण्डान्तर्गताया नन्दादेव्याः पौराणिकमाहात्म्यमिति विषयमाधारीकृत्य स्वकीयं शोधपत्रं प्रस्तुतम् तैर्नन्दसरनन्दादेवीप्रभृतीनां पौराणिकं माहात्म्यं सविस्तरं वर्णितम् अग्रे च तैरुक्तं यत् स्कन्दपुराणस्य मानसखण्डे एतदुल्लिखितमस्ति यन्नन्दादेव्याः श्रद्धापूर्वकया भक्त्या लौकिक्या भुक्त्या सह अलौकिकी मुक्तिरपि लभ्यते

अन्ते डो चन्द्रबल्लभबेलवालैः डो जगदीशचन्द्रपाण्डेयैः डो नीरजजोशिभिश्च विद्वद्भिः स्वविचाराः प्रकाशिताः।
अस्मिन् कार्यक्रमे वार्ष्णेयोऽशोकः त्रिपाठी जगत्प्रकाशः वैद्यो भट्टो राजेन्द्रः वैद्य उप्रेतीचन्द्रप्रकाशः वैद्यो नैनवालः सीडी वैद्यो जोशीदीपः वैद्यो थुवालोनारायणदत्तः जैनारती त्रिपाठीजानकी पाठकश्शुभमः कलौनीकीर्तिचन्द्रः बेलवालरजनी पाण्डेयः कृष्णचन्द्रः त्रिपाठीरजत उप्रेतीधीरजाद्याः बहवो गण्यमान्याः समुपस्थिता बभूवुः कार्यक्रमस्यान्ते च प्राचार्यः पाण्डेयमनोजकुमारः सर्वानतिथीन् पुष्पगुच्छैः प्रावारैश्च संमान्य स्मृतिचिह्नानि च प्रदाय समवेतानां सर्वेषां मान्यानां कृते कृतज्ञतां ज्ञापयामास अस्य कार्यक्रमस्य सञ्चालनं संयोजकः वैद्यो जोशीमोहितः आचार्यः पाठकसाकेतश्चाकुरुताम्

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button