उत्तराखण्ड

मार्गेषु जीवनसुरक्षार्थं रामनगरमहाविद्यालये प्रशिक्षणकार्यशालायाः आयोजनम्

वार्ताहरः-डॉ.मूलचन्द्रशुक्लः।रामनगरम्। सहायकसम्भागीयपरिवहन- अधिकारी-प्रवर्तन-रामनगरम्,पीएनजी राजकीयस्नातकोत्तरमहाविद्यालयः रामनगरम् इत्यनयोः संयुक्ततत्त्वावधाने मार्गेषु सुरक्षार्थं प्रथमप्रतिक्रियाकर्तृ-प्रशिक्षणकार्यशालाया: समायोजनं विहितम्। तत्र कार्यशालाया: उद्घाटने आरटीओ प्रवर्तन ऋशु तिवारी, महाविद्यालयप्राचार्यः प्रो.एम.सी. पाण्डे,नैनीतालस्य यातायातनिरीक्षक: वी.पी.भट्टः, एनडीआरएफ इत्यतः अमितकुमारश्च संयुक्तरूपेण दीपं प्रज्वाल्य शुभारम्भं कृतवन्तः। मञ्चसञ्चालकेन डॉ. डी.एन.जोशी महोदयेन सर्वेषामतिथीनां प्रतिभागिनां च अभिनन्दनं विहितम्। सर्वप्रथमं एआरटीओ प्रवर्तन- ऋशुतिवारी इत्यनया मार्गसुरक्षा- अभियानस्य प्रथमप्रतिक्रियाकर्तृप्रशिक्षणस्य महत्त्वं प्रतिपादितम्। अग्रे तया प्रोक्तं यत् सर्वेषां प्रतिभागिनां कृते इयं कार्यशाला अतीव महत्त्वपूर्णेति ।अवसाने स्वसम्बोधने तया विविधानि उदाहरणानि प्रस्तूय प्रोच्यते यत् मार्गदुर्घटना-परस्परसङ्घट्टनाकालेषु प्रशिक्षितजनाः विद्यार्थिनश्च पीडितस्य साहाय्यार्थमग्रे आगच्छेयुः ।

अमुस्मिन्नवसरे प्राचार्येण प्रो.एम.सी.पाण्डेवर्येण स्वोद्बोधने निगदितं यत् यातायातनियमः, मार्गसुरक्षा, शिरकवचधारणम् च इत्यादीनां परिपालनं सर्वैरपि निश्चप्रचं करणीयम्। नैनीतालजनपदस्य यातायातनिरीक्षक: वी.पी. भट्टः यातायातनियमानां विषये सूचनां दत्तवान्। सोऽवदत् यत् प्रायश: कस्याञ्चिदपि दुर्घटनायामाहतस्य त्वरितसाहाय्यं कृत्वा तस्य जीवनं रक्षितुं शक्यते। एनडीआरएफ इत्यतः अमितकुमारः प्रयोगात्मकरूपेण प्राथमिकचिकित्सा,सीपीआर, रक्तस्रावावरोधः इत्यादीन् विविधान् जीवनरक्षणोपायान् विधीन् च पुरस्कृतवान्। प्रशिक्षणकार्यशालायां स्वास्थ्य- चिकित्सादिसम्बद्धाः विविधाः सुलभाः पद्धतय अपि व्याख्यायिताः। मार्गादिषु सङ्घट्टनक्षतिं निवारयितुं एनसीसी-कैडेट्विद्यार्थिनः विविधप्रश्नमाध्यमेन स्वजिज्ञासाः पुरस्कृत्य समाधानं ज्ञातवन्तः।

अस्मिन्नवसरे सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि प्राथमिकचिकित्सासामग्रीं च दत्त्वा सम्मानिताः। परिवहनविभाग:, कोतवालीरामनगरम्,एनडीआरएफ,चालका: परिचालकाश्च तथा महाविद्यालयस्य डॉ. सिराज अहमदः, डॉ. मूलचन्द्रशुक्ल:, डॉ. डी.एन.जोशी, डॉ. कृष्णाभारती, ७९ व २४ बटालियन् एनसीसी कैडेटविद्यार्थिनः समुपस्थिता आसन्। एते प्रमाणपत्रेण प्राथमिकचिकित्सापेटिकया च सम्मानिताः। मञ्चसञ्चालनं एनसीसी अधिकारिलेफ्टिनेंट (डॉ.) डी.एन. जोशी महोदयेन विहितम्।*

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button