कृष्णपालनेगी भौतिकविज्ञानविषये शोधोपाधिं सम्प्राप्तवान्
तेन “Study of Radon Generation and Transport from the Soil to Environment in Uttarkashi Region of Garhwal Himalaya” इत्यस्मिन् विषयोपरि अनुसन्धानकार्यं कृतम्। अस्य अनुसन्धानस्य समये गढ़वालविश्वविद्यालयस्य वरिष्ठप्राध्यापकः प्रो. आर.सी. रमोलः इत्यनेन उपदेशकत्वम् अवलम्ब्य, रामनगरराजकीयस्नातकोत्तरमहाविद्यालयस्य भौतिकविज्ञानविभागे सहायकप्राध्यापक: डॉ. सुभाषचन्द्रः इत्यनेन निर्देशनं प्रदत्तम्

रामनगरम्। पी.एन.जी. राजकीयस्नातकोत्तरमहाविद्यालये रामनगरस्थिते भौतिकविज्ञानविभागस्य अनुसन्धानशिष्यः कृष्णपालनेगी कुमाऊँ-विश्वविद्यालयेन नैनीतालद्वारा शोधोपाधिः प्रदत्ता।
तेन “Study of Radon Generation and Transport from the Soil to Environment in Uttarkashi Region of Garhwal Himalaya” इत्यस्मिन् विषयोपरि अनुसन्धानकार्यं कृतम्। अस्य अनुसन्धानस्य समये गढ़वालविश्वविद्यालयस्य वरिष्ठप्राध्यापकः प्रो. आर.सी. रमोलः इत्यनेन उपदेशकत्वम् अवलम्ब्य, रामनगरराजकीयस्नातकोत्तरमहाविद्यालयस्य भौतिकविज्ञानविभागे सहायकप्राध्यापक: डॉ. सुभाषचन्द्रः इत्यनेन निर्देशनं प्रदत्तम्।
मौखिकी परीक्षा कुमाऊँ-विश्वविद्यालये भौतिकविज्ञानविभागाध्यक्षया संयोजिकाया: प्रो. सूची-बिष्टवर्याया: अध्यक्षतायाम् सम्पन्ना। तस्मिन् समये बाह्यपरीक्षकः दिल्ली-विश्वविद्यालयस्य भौतिकविज्ञानविभागस्य प्रो. संजयकुमार-चमोली अभवत्। परीक्षकाभ्यां तेन कृतं अनुसन्धानं प्रशंसितम्, गुणवत्तायुक्तं च उक्तम्।
अस्मिन् अवसरे प्रो. संजयकुमार-चमोली, विभागाध्यक्षया प्रो. सूची-बिष्टया, शोध-निर्देशकेन डॉ. सुभाषचन्द्रेण, डॉ. राकेशनेगिना च सह अन्येऽपि शोधार्थिनः कृष्णपालनेगी अभिनन्द्य तस्य उज्ज्वलभविष्याय शुभकामनाः दत्ताः।
एतस्मिन्नवसरे महाविद्यालयस्य प्राचार्यः प्रो. एम.सी. पाण्डे, चीफ-प्रॉक्टरः प्रो. एस.एस. मौर्यः, विभागप्रभारी डॉ. लवकुशकुमारः, प्रो. जे.एस. नेगिः, डॉ. प्रमोदजोशी, डॉ. मूलचन्द्रशुक्लः, डॉ. अनुरागश्रीवास्तवः, डॉ. पी.सी. पालीवालः, डॉ. डी.एन. जोशी च तस्मै हार्दिकशुभकामनाः दत्तवन्तः।
कृष्णपालनेगी स्वस्य अस्य यशः गुरुजनानाम्, परिजनानां च कृपायै समर्पितवान्।