संस्कृत भारती

सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः

संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखस्य देवपुजारिश्रीशमहोदयस्य नेतृत्वे संस्कृतभारत्याः प्रतिनिधिमण्डलेन माननीयप्रधानमन्त्रिणा नरेन्द्रमोदिमहाशयेन सह सङ्गतिः कृता।

सुभाषितेनार्थसिद्धिर्न तु दीर्घभाषणेन इति प्रधानमन्त्रिणो मोदिमहाशयस्य मतम्। संस्कृतभारत्याः प्रतिनिधिभिः सह सम्भाषणे व्यक्तो भावः। संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखस्य देवपुजारिश्रीशमहोदयस्य नेतृत्वे संस्कृतभारत्याः प्रतिनिधिमण्डलेन माननीयप्रधानमन्त्रिणा नरेन्द्रमोदिमहाशयेन सह सङ्गतिः कृता।

यत्र दीर्घभाषणं श्रुत्वापि आशयो न स्फुटीभवति तत्रैकेन सुभाषितेन सकलोऽपि विषयः करतलामलकवत् सुस्पष्टो भवति इति माननीयस्य प्रधानमन्त्रिनरेन्द्रमोदिमहाभागस्य वचनमासीत्। सः स्वकीये आवासे संस्कृतभारत्याः कार्यकर्तॄन् सम्बोधयन्नासीत्।

प्रधानमन्त्रिणः मनसो वार्ता इति कार्यक्रमे संसदि च प्रदत्तेषु भाषणेषु उल्लिखितानां सुभाषितानां सूक्तीनां च सङ्ग्रहः संस्कृतभारत्याः विदर्भन्यासद्वारा उद्गाराः इति नाम्ना पुस्तकरूपेण प्रकाशितः। संस्कृतभारत्याः पुण्यपत्तनस्थाभ्यां कार्यकर्त्रीभ्यां कुलकर्णीवैखरी(सेनाड्)महोदयया फडणीसरञ्जनामहोदयया च अस्य ग्रन्थस्य सम्पादनं विहितम्। ग्रन्थेऽस्मिन् सुभाषितानां पदच्छेदः अन्वयः संस्कृतहिन्दी-आङ्ग्लमराठीभाषासु अनुवादश्च विलसति। तदतिरिक्तं सुभाषितानां मूलस्रोतांसि येषु च सन्दर्भेषु तानि भाषितानि ते मोदिमहाशयस्य वाक्यांशाः अपि समुद्धृताः सन्ति। लेखिकाभ्यां कृताः टिप्पण्यः सुभाषितानां विषयेऽतिरिक्तां सूचनां प्रयच्छन्ति। शताधिकानि वर्णरञ्जितचित्राणि सुभाषितानामर्थं सुतरां प्रकाशयन्ति यानि पुस्तकस्याकर्षणकेन्द्राणि सन्ति। एभिः कारणैः पुस्तकमिदं विश्वस्य सर्वेषां वयसां जनानां कृते मार्गदर्शकं सञ्जातम्।

संस्कृतभारत्याः विदर्भन्यासस्य पक्षतः पुस्तकमिदं प्रधानमन्त्रिणे समर्पितुं न्यासस्य अधिकारिणः सङ्कलनकर्त्र्यश्च देहलीं गताः आसन्। माननीयप्रधानमन्त्रिणः आवासे समर्पणसमारोहोऽयं समपद्यत। अस्मिन् अवसरे संस्कृतभारत्याः अखिलभारतीयसम्पर्कप्रमुखो देवपुजारिश्रीशः उपस्थितः आसीत्। द्वे तपसी अर्थात् चतुर्विंशतिवर्षाणि यावत् सत्ताकेन्द्रे स्थित्वा देशसेवार्थं देवपुजारिश्रीशेन अङ्गवस्त्रेण पूर्वप्रचारकस्य मोदिमहाशयस्य सत्कारः कृतः।

अस्मिन् प्रसङ्गे भाषमाणो माननीयो मोदिमहाशयोऽवदत् यत् सुभाषितानां प्रयोगस्य प्रेरणा तेन परमपूजनीयात् सरसङ्घचालकात् देवरसबालसाहेबात् प्राप्ता। सः सुयोग्यसुभाषितानां प्रयोगेन विषयं सम्यग् अबोधयत्। किञ्चित्कालपूर्वं यावत् संस्कृतं केवलं पण्डितानां भाषा आसीत्। परन्तु संस्कृतभारत्या तत् सारल्येन जनेषु प्राचारि इति।

ग्रन्थसमर्पणकाले कुलकर्णीवैखरी(सेनाड्)महोदया फडणीसरञ्जनामहोदया देशपाण्डेवन्दनाकुमारी कुलकर्णीश्रीया देवपुजारिश्रीशः साहित्यप्रसारकेन्द्रस्य कुलकर्णीमकरन्दः टेण्यभिजितः वर्णेकरश्रीनिवासः सेनाड्डिलीपः देशपाण्डेप्रमोदश्च उपस्थिताः आसन्।

उपस्थितानां सर्वेषां परिचयं प्राप्य मोदिमहाशयः सर्वेषां कुशलं पप्रच्छ। तदा सः इमं सन्देशं दत्तवान् जिज्ञासातः कृतिः प्रवर्तते। तस्मात् जिज्ञासा जागरयितव्या इति। सः आत्मीयभावेन सर्वैः सह वार्तालापं कुर्वन्नासीत्। सङ्घप्रचारकस्य व्यवहारः यादृशो भवेत् तादृश एवासीत्। इयं भावविभोरकारिणी सङ्गतिः सर्वेषां स्मृतिपटले चिरं स्थास्यति।

नवेम्बर्मासे कोयम्बत्तूर्नगरे भविष्यमाणे संस्कृतभारत्याः अखिलभारतीयसम्मेलने पुस्तकस्य लोकार्पणानन्तरं विक्रयः आरप्स्यते। माननीयो मोदिमहाशयः अखिलभारतीयसम्मेलनाय शुभकामनाः प्राददात्॥

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button