छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम्
निम्बुचौडग्रामस्थस्य दियादिव्याङ्गसंस्थायाः विशेषयोग्यबालकैः सह प्रातराशं भुक्त्वा तेषां मनसि आनन्दम् अजनयत्

अथ कोटद्वारतः शुभसमाचारः ॥
पञ्चविंशत्युत्तरद्विसहस्रतमे वर्षे अक्टोबर्मासस्य अष्टादशे दिनाङ्के कोटद्वारस्थस्य विद्यावाचस्पतिपीताम्बरदत्तबडथ्वालहैमालयशासकीयस्नातकोत्तरमहाविद्यालयस्य छात्रसङ्घस्य महामन्त्री श्रीमान् कण्डवालानुरागः स्वस्य जन्मोत्सवम् अत्यन्तम् अभिनवेन प्रकारेण अमन्यत । शास्त्रेषु जन्मदिने दानस्य पूजनस्य च महिमा गीयते तदनुसरन् स युवकः दिवसस्य प्रारम्भं सेवाकार्येण अकरोत् ॥
प्रथमं तु सः निम्बुचौडग्रामस्थस्य दियादिव्याङ्गसंस्थायाः विशेषयोग्यबालकैः सह प्रातराशं भुक्त्वा तेषां मनसि आनन्दम् अजनयत् । अस्मिन्नेव मङ्गलावसरे तेषां दिव्याङ्गबालकानां दन्तस्वास्थ्यपरीक्षणाय शिविरम् एकम् आयोजितम् आसीत् । क्रिएटिङ्ग्स्माइल्स्डेण्टल्मैक्सियोफ्लेसियल्क्लिन्क् (Creating Smiles Dental & Maxillofacial Clinic) इति चिकित्सालयस्य कुशलः शल्यचिकित्सकः श्रीमान् बुडाकोटिवैभवः स्वयम् आगत्य सर्वेषां बालकानां दन्तान् अपरीक्षत ।
तदा स वैद्यवर्यः बालकान् स्नेहेन अबोधयत् यत् प्रायेण बहवो रोगाः दन्तास्वच्छतायाः कारणादेव शरीरे प्रविशन्ति अतः दन्तरक्षा परमावश्यकी इति । तदनन्तरं सर्वेभ्यः छात्रेभ्यः औषधानि दन्तफेनकानि च वितरितानि ॥
परं कण्डवालानुरागस्य सेवाकार्यं नात्रैव अवसितम् । सः पूर्ववर्षवत् नगरस्य चन्द्रमोहनसिंहनेगीचिकित्सालयं गत्वा रक्तदानं कृत्वा स्वजन्मदिनं सार्थकं स्मरणीयं च अकरोत् । रक्तदानं महादानम् इति उक्तिं सः सत्यीचकार ।
अस्मिन् पुण्यकर्मणि तस्य सहायार्थम् अन्येऽपि सज्जनाः उपस्थिताः आसन् । यथा शल्यचिकित्सको बुडाकोटिवैभवः बुडाकोटिश्रीमती सिमरन् ध्यानीमेघा कण्डवालानूपः नेगीमोहितः श्रीमती मालासीकविता च ॥







