कोटद्वारनगरस्य युवसमाजसेवकौ देहल्यां कीर्तिं प्राप्नुतः । पौडीगढवालजनपदाय गौरवास्पदः क्षणः

राजधान्यां देहल्यां भारतमण्डपे एकदिवसीयः कर्नालनगरे च द्विदिवसीयः समारोहः सकलस्य पौडीजनपदस्य कोटद्वारनगरस्य च कृते महान् गौरवस्य विषयोऽभवत् । निफा (Nifaa) नाम्नः संस्थायाः रजतजयन्त्यवसरे राष्ट्रियराज्यीयजनपदीयस्तरेषु युवसमाजनायकपुरस्काराः प्रदत्ताः ।

भारतमण्डपे समायोजितः कार्यक्रमः अन्तर्राष्ट्रियप्रसिद्धः प्रेरकवक्ता लेखकश्च खेडाशिवमहाभागः मौरिशसदेशस्य राष्ट्रपतेः प्रतिनिधिः जापानदेशस्य राजदूतश्चेति महाशयानां सान्निध्ये सम्पन्नोऽभवत् । युवसमाजनायकपुरस्काराणां वितरणं तु कर्नालनगरे द्वितीये सत्रे समपद्यत । अत्र हरियाणाराज्यस्य विधानसभाध्यक्षः कल्याणाहरविन्दरमहाशयः मुख्योऽतिथिरासीत् । अखिलभारतीयमहापौरपरिषदो राष्ट्रियाध्यक्षा बालारेणुमहाशया विशिष्टातिथिरूपेण समुपस्थितासीत् । तया एव समाजसेवकाः सम्मानिताः । ततः वर्ल्ड बुक्स् आफ् एक्सेलेन्स् इंग्लैण्ड् (World Books of Excellence England) संस्थायाः प्रतिनिधिना पुरस्काराः प्रमाणपत्राणि च तेभ्यो वितरितानि ॥

निफा (Nifaa) संस्थायाः संस्थापकः अध्यक्षश्च पन्नुप्रीतपालमहाशयः नेगिशिवमं जख्वालयाशिकां च तयोः सामाजिकहितकार्येषु अग्रगण्यां भूमिकां निर्वोढुं सम्मानितवान् । आधारशिलारक्तदानसमूहस्य ग्रीन-आर्मी-देवभूमि- उत्तराखण्डसंस्थायाश्च स्वयंसेवकौ नेगिशिवमः जख्वालयाशिका च स्वकार्यैः समग्रस्य कोटद्वारस्य जनपदस्य च गौरवं वर्धितवन्तौ ।
पर्यावरणसंरक्षणेन रक्तदानेन क्रीडाप्रवृत्तिभिः शैक्षिकनवोन्मेषैः जनजागरूकताकार्यक्रमेण स्वच्छताभियानेन पशूनां त्राणेन निराधाराणां साहाय्येन च निरन्तरं सेवाकार्यं कुर्वन्तौ इमौ युवासमाजसेवकौ युवसमाजनायकपुरस्कारेण समलङ्कृतौ । अपि च वर्ल्ड बुक्स् आफ् एक्सेलेन्स् इंग्लैण्ड् (World Books of Excellence England) संस्थातः गौरवान्वितेन प्रमाणपत्रेण भूषितौ ॥

उभयोः संस्थयोः मतमस्ति यत् समाजस्य तादृशस्य प्रत्येकस्य जनस्य महती आवश्यकता वर्तते यः निःस्वार्थभावेन सामाजिकपर्यावरणहिताय कार्यं करोति । समाजसेवकाः स्वस्तरेषु समाजस्य आधारस्तम्भा इव कार्यं कुर्वन्ति । तेषां कार्याणां प्रभावः साक्षात् समाजस्य सर्वेषु जनेषु पतति । तत्र रक्तदानं तु न केवलं जीवनदानम् अपि तु मानवतायाः परमो धर्मः । यथोक्तं शास्त्रेषु परोपकारः पुण्याय पापाय परपीडनमिति । अयमेव विश्वासः तान् अहोरात्रं समाजसेवायां प्रेरयति ।
पुरस्कृतैः समाजसेवकैः कथितं यत् एषा सिद्धिः न वैयक्तिकी अपितु तेषां सर्वेषां सहकारिणां निष्ठायाः परिश्रमस्य च फलमस्ति ये स्कन्धेन स्कन्धं मेलयित्वा अस्मिन् सेवापथे तैः सह चलन्ति । कोटद्वारतः पर्वतीयक्षेत्राच्च देहल्याः भारतमण्डपपर्यन्तं प्रतिध्वनितः अयं सन्देशः ज्ञापयति यत् देवभूमेः संस्कृतिः मानवतायै परोपकाराय च ख्यातास्ति । इयं भूमिः समाजसेवाम् अवसरमात्रं न मन्यते अपि तु जीवनस्य उत्सवमेव अङ्गीकरोति ॥







