उत्तराखण्डपौड़ी

संस्कृतविभागेन आवधिक-व्याख्यानस्य कृतम् आयोजनम्।

भारतीय-दर्शने निहितं प्रकृति-संरक्षणम्, सह-अस्तित्व-भावना, नैतिक-मूल्यानि च पर्यावरणीय-सङ्कटस्य स्थायी-समाधानम् - "डा.शैलपुत्री"

हेमवतीनन्दनबहुगुणागढ़वालकेन्द्रीयविश्वविद्यालयस्य बी. जी.आर. परिसरः पौड़ी इत्यत्र संस्कृतविभागेन आवधिक-व्याख्यानस्य आयोजनं समभवत्। कार्यक्रमस्य शुभारम्भः डॉ. दिनेशचन्द्रपाण्डेयेन लौकिक-मङ्गलाचरणेन कृतः। तदनन्तरं संस्कृतविभागाध्यक्षा महोदया स्वागत-भाषणं कृत्वा कार्यक्रमस्य रूपरेखां प्रकाशयामास।

कार्यक्रमस्य मुख्यवक्त्री डॉ. कविता भट्टशैलपुत्री आसीत्। तया “पर्यावरणीय-सङ्कटे दर्शनस्य भूमिका” विषयेस्मिन् विस्तरेण व्याख्यानं दत्तम्। स्वीय-सम्बोधने सा वर्तमान-वैश्विक-पर्यावरणीय-सङ्कटान्—यथा जलवायु-परिवर्तनम्, जैव-विविधताया: क्षयः, संसाधनानां अत्यन्त-दोहनं च—उल्लिख्य, तेषां समाधानाय दर्शनस्य महत्त्वपूर्णां भूमिकां रेखाङ्कितवती। विशेषतया भारतीय-दर्शने निहितं प्रकृति-संरक्षणम्, सह-अस्तित्व-भावना, नैतिक-मूल्यानि च पर्यावरणीय-सङ्कटस्य स्थायी-समाधानरूपेण प्रस्तुतानि।

कार्यक्रमस्य अध्यक्षता परिसर-निदेशकः प्रो. यू. सी. गैरोला अनेन महोदयेन कृत: । अस्मिन् कार्यक्रमे समन्वयिका प्रो. कुसुमडोबरियालवर्या, पूर्व-परिसर-निदेशकः प्रो. अनूपडोबरियाल:, प्रो. रेहाना ज़ैदी, डॉ. चन्द्रभानुकोटनाला, डॉ. पूनमबिष्टरावत:, डॉ. विनयकुमारवर्मा, डॉ. धर्मेन्दकुमार:, डॉ. विपुलसिंह, डॉ. बिपिनकुमार, डॉ. विक्रमनेगी, डॉ. यशवन्तराणा, डॉ. रुचिता, डॉ. देवेन्द्रसिंह:, डॉ. दीवानसिंहराणा, डॉ. कृपालसिंहतोमर:, डॉ. ललिता, डॉ. आशा बिष्ट:, डॉ. बिमला चमोला, डॉ. नवनीतबिष्ट:, डॉ. जया उनियाल:, डॉ. अंकिता बिष्ट:, डॉ. स्वाति:, डॉ. भण्डारी, श्री पङ्कजकार्की, श्री गोकुलचन्द्रफुलारा इत्यादयः विभिन्न-विभागानां शिक्षकगणाः, शोधार्थिनः तथा बहुसङ्ख्यकाः विद्यार्थिनः उपस्थिताः आसन्।

उपस्थित-श्रोतारः विषयं समसामयिकं परमप्रासङ्गिकं च मन्यमानाः व्याख्यानस्य मुक्तकण्ठेन प्रशंसां कृतवन्तः। कार्यक्रमस्य संचालनं संस्कृतविभागस्य सहायकाचार्येण दिनेशचन्द्रपाण्डेयेन कृतम्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button