*शारीरिकमानसिकारोग्ययोर्मूलं योगः-* *कुलपतिः, प्रो. शिवशंकरमिश्रः*
योगवैकल्पिकचिकित्साविभागद्वारा समायोजितं गुरुदिवसव्याख्यानम्

वार्ताप्रेषकः- डॉ. मूलचन्द्रशुक्लः। *रामनगरम्*। *शारीरिकमानसिकारोग्ययोर्मूलं योगः-* *अयं विचारः महर्षिपाणिनिसंस्कृत-एवं वैदिकविश्वविद्यालयस्य, उज्जयिन्याः कुलपतिना , प्रो. शिवशंकरमिश्रेण मुख्यवक्तृत्वेन व्याखानमालायां समुपस्थापितः।*

पीएनजी राजकीयस्नातकोत्तरमहाविद्यालये रामनगरे कैरियर – काउंसलिंग- प्रकोष्ठस्य सञ्चालने तथा योग – एवं वैकल्पिकचिकित्साविभागस्य आयोजकत्वे गुरुदिवसव्याख्यानमालायाः पञ्चमश्रृङखलायाः चतुर्थव्याख्यानस्य आयोजनं विहितम् । तत्र मुख्यवक्त्रा प्रो.शिवशङ्करमिश्रेण ‘आरोग्यस्य मूलं योगविज्ञानम् ‘ विषयमधिकृत्य महत्त्वपूर्णं वक्तव्यं प्रस्तुतम् । तेन विषयSस्मिन् अत्यन्तं ज्ञानवर्धकाः एवञ्च आह्लादकराः स्वीयानुभवाः विविधोद्धरणमाध्यमेन विद्यार्थिभ्यः समुपस्थापिताः। भारतीयदर्शनेषु योगपरम्परा अत्यन्तं प्राचीना वर्तते, यस्याः अन्तिमं लक्ष्यं समाधिद्वारा मोक्षप्राप्तीति वर्तते। अनेन स्वीयवैदुष्यपूर्णे वक्तव्ये निगदितं यत् मनुष्येण शारीरिक- मानसिक-सामाजिक – आध्यात्मिकेषु इत्येतेषु सर्वस्तरेषु स्वस्थैर्भवितव्यम्।अग्रे तावत् स्वीयोद्बोधने कथितं यत् स्वस्थशरीरे स्वस्थमनसः निवासे सति एव मानवस्य प्रत्येकं कार्येषु सत्प्रवृत्तिर्जायते ।

कुलपतिना यमनियमआसनप्राणायामप्रत्याहारधारणाध्यानसमाधिः इत्येतेषाम् अष्टाङ्गानां नियमानुसारेण पालनं विधाय क्रमशः एतेषां सिद्धये आयुर्वेदानुसारं स्वीयव्यवस्थितदिनचर्यायां हिताशी – हितकरस्य,मिताशी – स्वल्पस्य,कालभोजी – निर्धारितसमयस्य एवं जितेन्द्रयुक्ताहारस्य विषये प्रोक्तम्।तदैव योगो भवति दुःखहा,योगश्चित्तवृत्तिनिरोधः एवं समत्वं योग उच्यते इत्यादीनि वचांसि प्रमाणितानि भविष्यन्ति। कार्यक्रमस्य शुभारम्भः महाविद्यालयस्य प्राचार्यः प्रोफेसर एम.सी.पाण्डेयमहोदयः शुभकामनासन्देशं प्रदाय स्वीयाध्यक्षीयोद्बोधने उक्तवान् यदनया व्याख्यानशृङ्खलया समाजे शैक्षणिकज्ञानवर्धनं भविष्यति ।

आयोजकसचिवः एवञ्च संस्कृतविभागस्य प्रभारी डॉ. मूलचन्द्रशुक्लः मुख्यवक्तुः अपि च समस्तसमागतातिथिनां एवञ्च प्रतिभागिनां स्वागतं विधाय व्याख्यानस्य प्रस्तावनां प्रस्तुतवान् ।कार्यक्रमान्ते योगविभागस्य प्राध्यापकः डॉ. नितिन ढोमणे- महोदयेन समागतमुख्यवक्तारम्प्रति समुपस्थितान् सर्वजनान् प्रति च महाविद्यालयपरिवारपक्षतः कृतज्ञताभावाः प्रकटिताः। व्याख्याने महाविद्यालयसहित राज्यकर- आधिकारी मितेश्वर आनन्दः,प्रो. जी.सी. पन्त: ,चीफ प्राँक्टर प्रो.एस.एस.मौर्य: ,डॉ. विजयकुमार: शर्मा,डॉ. चन्द्रकान्तदत्तशुक्ल:, डॉ. सुनीलमिश्र:,डॉ. सचिनदेव: द्विवेदी,ज्ञानप्रकाश: चतुर्वेदी,दीपचन्द्र: जोशी,धर्मज्ञानोपदेशतः रविशर्मा,मुकेशः त्रिपाठी,राधेकृष्ण: शुक्ल चेत्यादिभिः विभिन्नप्राध्यापकैः,शोधार्थिभिः छात्रछात्राभिश्च अन्तर्जालमाध्यमेन प्रतिभागिता कृता । व्याख्यानमालायाः आयोजकसचिवः एवं संस्कृतविभागस्य प्रभारी डॉ. मूलचन्द्रशुक्ल,सह आयोजकसचिव: डॉ.सुमनकुमार:,सदस्य: डॉ. नितिन: ढोमणे,डॉ. मुरलीधर: कापड़ी एवं विवेक जोशी इत्येते आसन्। करियर- काउंसलिंग- प्रकोष्ठस्य संयोजक: डॉ.अनुराग: श्रीवास्तव:,सहसंयोजक:, डॉ.लोतिका अमित: एवं सहसंयोजक: डॉ.प्रकाशसिंहबिष्ट: इत्येते आसन्।







