उत्तराखण्डदेहरादून

उत्तराखण्डविद्वत्सभया ज्योतिषीयविद्वत्संगोष्ठी सनातनपरम्परासंरक्षणाय शास्त्रीयविमर्शश्च सम्पादितौ

"पर्वनिर्णयः केवलं तिथिदर्शनमात्रेण न कर्तव्यः, अपि तु देशकालव्यवहारपरम्पराणां समन्वयेन । उत्तराखण्डस्य क्षेत्रीयमान्यतानां शास्त्रीयाधारः स्पष्टः कर्तव्यः।”--- "राधाकृष्णथपलियाल:"

धीरजमैठाणी- देहरादूनम् – उत्तराखण्डप्रदेशस्य सनातनपरम्पराणां, व्रतपर्वणाम् अथ च ज्यौतिषीयनिर्णयानां शास्त्रीयव्यावहारिकदृष्ट्या एकरूपीकरणम् आधृत्य संवत् २०८३ (२०२६–२७) सन्दर्भे, एकस्य ज्योतिषीयविचारविमर्शविद्वत्गोष्ठ्याः सफलतया आयोजनं विहितम्।

एषा गरिमामयी गोष्ठी उत्तराखण्डविद्वत्सभायाः (पंजीकृता) तत्वावधाने, सभाध्यक्षेण सम्मेलनस्य सूत्रधारेण आचार्येण हर्षपतिगोदियालेन आयोजिता। समापनवक्तव्ये सः अवदत्— “एषा गोष्ठी केवलं विचारविमर्शः न, अपि तु सनातनसंस्कृतेः संरक्षणदिशि ऐतिहासिकं पदम् अस्ति।”
एवं प्रकारेण सभाया एषा विद्वद्गोष्ठी सनातनसंस्कृतेः, शास्त्रीयज्योतिषस्य सामाजिकसमरसतायाः च कृते प्रेरणादायिनी भूयात्।

कार्यक्रमस्य अध्यक्षतां डॉ० रमेशचन्द्रपाण्डेयोऽकरोत्। स्वस्य अध्यक्षीयोद्बोधने सः अवदत् यत् “सनातनपरम्पराणां शुद्धता केवलम् आस्थाविषयः न, अपि तु शास्त्रीयानुशासनस्य तथा कालगणनायाः वैज्ञानिकतायाः अपि विषयः अस्ति। पञ्चाङ्गेषु एकरूपता कालस्य आवश्यकता अस्ति, यस्य कृते प्रतिबद्धनेतृत्वस्य अपेक्षा वर्तते।”
कार्यक्रमस्य मुख्यातिथिः आचार्यो राधाकृष्णथपलियालो नवसंवत्सरस्य, मलमासस्य पर्वनिर्णयस्य च विषये विचारान् प्रस्तुत्य अवदत्— “पर्वनिर्णयः केवलं तिथिदर्शनमात्रेण न कर्तव्यः, अपि तु देशकालव्यवहारपरम्पराणां समन्वयेन । उत्तराखण्डस्य क्षेत्रीयमान्यतानां शास्त्रीयाधारः स्पष्टः कर्तव्यः।”
विशिष्टातिथिः आचार्यो राजेशबेंजवालो ज्योतिषीयभ्रान्तीनां विषये स्पष्टम् अवदत् यद्राहुकालः, भद्राकालः, अस्तकालः इत्यादिषु विषयेषु अनावश्यकभयस्य वातावरणं निर्मीयते। शास्त्राणां सूक्ष्माध्ययनेन ज्ञायते यत् अनेके निषेधाः सार्वकालिकाः न, अपि तु सानुबंधाः सन्ति।”
तेन शास्त्रमन्थनात् शास्त्रार्थाच्चैव ससन्दर्भतया सर्वे तथ्याः निर्णेतव्याः इति अपि निर्दिष्टम्।
अतिविशिष्टातिथिः डॉ० चण्डीप्रसादघिल्डियालः संस्कृतज्योतिषशिक्षायाः सन्दर्भे अवदत् यच्छास्त्राणि तदा एव जीवितानि तिष्ठन्ति, यदा तानि समाजस्य व्यावहारिकसमस्यानां समाधानं कुर्वन्ति। एतादृशाः विद्वद्गोष्ठ्यः ज्ञानपरम्परां अग्रे नयन्ति।”
गोष्ठ्याम् उपस्थिताः अवर्तन्त आचार्यो जगदम्बाप्रसादसती, डॉ० शम्भूप्रसादपाण्डेयः, नीतिशबोडाई इतिप्रभृतयो बहवः ज्योतिषाचार्याः स्वस्वविचारान् प्रस्तुतवन्तः। तैः नवसंवत्सरस्य घटस्थापनतिथिः, गङ्गादशहरानिर्णयः, उत्तराखण्डे राहुकालव्यवस्था, होलाष्टककालः, भद्रायां रक्षाबन्धनहोलिकादहननिर्णयः, महालयपक्षे त्रयोदशीमघानक्षत्रगतस्तर्पणनिषेधः, दीपावल्यां लक्ष्मीपूजनकालः, पञ्चदिवसीयदीपावलीक्रमः, २०२७ तमे वर्षे होलीपर्वतिथिः, शुक्रगुर्वोः अस्तकाले विवाहविषयः, नवीनवर्षफलनिर्माणे धुवाङ्कसारणीप्रयोगः इत्यादिषु जटिलविषयेषु शास्त्रीयप्रमाणैः सह मतमभिव्यक्तम्।

२०२७ तमस्य वर्षस्य होलीविषये ते अवदन् “छरौली कृष्णपक्षे एव आचरितव्या इति शास्त्रसम्मतम्। पञ्चाङ्गेषु उत्पन्ना भिन्नता सामूहिकनिर्णयेन एव निराकर्तुं शक्यते।”

गोष्ठ्याः अन्ते विदुषां समुपस्थितौ सभया सर्वसम्मत्या आचार्य राजेशबेंजवालः उत्तराखण्डविद्वत्सभायाः संरक्षकत्वेन मनोनीतः। राजराजेश्वरानन्दनाथस्य जीवनं तपः, साधना, आत्मानुशासनपरम्परा इत्येभिः परिपूर्णम् अस्ति। सः विधिवत् गुरुकृपया दीक्षितः सन् दीर्घकालं कठोरतपश्चर्यां अकरोत्। गायत्रीमन्त्रस्य चत्वारि पुरश्चरणानि, श्रीविद्यासाधनायां पूर्णाभिषेकः, काश्यां परमहंसगुरुदेवस्य श्रीमद् श्रीकृष्णानन्दनाथस्य सान्निध्ये त्रिवर्षपर्यन्तं निरन्तरतपः तथा द्वात्रिंशत्कालसिद्धिसाधना तस्य प्रमाणम् अस्ति।

कामाख्यापीठे अघोरचक्रकसम्प्रदायस्य (कामाख्याकौलस्य) परम्पराचार्यात् श्रीकामेश्वरानन्दनाथात् प्राप्तपूर्णाभिषेकानन्तरं सः कौलतन्त्रवेदज्योतिषशास्त्राणि एकीकृत्य साधनापरम्परां प्रवर्तितवान्। तस्य तपः केवलं व्यक्तिगतसिद्ध्यर्थं न, अपि तु शास्त्रीयज्ञानस्य, पञ्चाङ्गगणनायाः तथा सनातनपरम्पराणां संरक्षणाय समर्पितम्।

अस्मिन् अवसरे उपस्थितैः सर्वैः विद्वद्भिः हर्षः व्यक्तीकृतः, तस्मै वर्धापनानि शुभाशंसाश्च प्रदत्ताः।

मञ्चसञ्चालनं महासचिवः अजयडबरालः अकरोत्। उपाध्यक्षः सत्यप्रसादसेमवालः विचारार्थबिन्दूनां प्रस्तुतीकरणं कृतवान् तथा कोषाध्यक्षः आदित्यरामथपलियालः कोषगतस्थितिं प्रास्तौत्। कार्यक्रमे उदयशंकर भट्टो, विजेंद्र ममगाईं , दिनेशभट्टः , मुकेश पंतः, लक्ष्मी पांडे, हर्षपतिगोदियालो, प्रेमबिंजोला, राजेशअमोली, विपिनडोभालः,सुभाष डिमरी, आशीषखंकरियालः, विकास भट्ट, दीपकअमोली, मनमोहनलोहनी, परशुरामउनियालः, चन्द्रशेखरजोशी, रामचन्द्रः इत्यादयः अनेके विद्वांसः पदाधिकारिणश्च उपस्थिताः आसन्।

Show More

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार" निश्शुल्कपत्रम् , निश्शुल्कप्रकाशनम्, आरम्भ: - 2021
Back to top button