कण्वनगरीकोटद्वारे ‘मुष्टियुद्ध-महाकुम्भः’ — रिङ्गे युवमुष्टियुद्धवीराणां शौर्यप्रहारैः अष्टमी राज्यस्तरीया मुष्टियुद्ध-प्रतियोगिता प्रादुर्भूता

।कोटद्वारम्। कण्वनगर्यां पावनधरण्यां उत्तराखण्ड-राज्य-क्रीडा-विभागस्य तथा उत्तराखण्ड-मुष्टियुद्ध-संघस्य समन्वयेन, जिलाक्रीडाधिकारी जयवीररावत-महोदयस्य एवं स्थलक्रीडा-प्रभारी श्यामसिंह-डांगी-महोदयस्य मार्गदर्शनेन अद्य मुष्टियुद्धवीराणां संकल्प-ऊर्जाभिः समग्रं वातावरणं गुंजायमानं जातम्। दुर्गापुरी-स्थले अष्टमी राज्यस्तरीया कनिष्ठा (अन्तरायु:–१७) बालक-बालिका-मुष्टियुद्ध-प्रतियोगिता अत्यन्तं भव्यतया आरब्धा, या देवभूमेः क्रीडाकौशलाय नूतनं मञ्चं प्रदत्तवती। २७ तः २९ दिसम्बर्-पर्यन्तं प्रवर्तमानायां अस्याम् प्रतियोगितायां राज्यस्य विविधजनपदेभ्यः आगताः प्रतिभावन्तः मुष्टियुद्धकाः स्वप्रहार-बलं चपलतां च प्रदर्शयन्ति।

माननीया विधानसभाध्यक्षया विजय-शङ्खनादः कृतः
प्रतियोगितायाः विधिवत् उद्घाटनं उत्तराखण्ड-विधानसभायाः प्रथम-महिला-अध्यक्षया माननीयया श्रीमत्या ऋतु-खण्डूरी-भूषण-महाभागया कृतम्। सा मातृसरस्वत्याः पुरतः दीपप्रज्वलनं कृत्वा आयोजनस्य गरिमां वर्धितवती। ततः विविधजनपदेभ्यः आगतानां क्रीडकेभ्यः तथा विद्यालयीय-छात्रेभ्यः (बाल-भारती एवं नवयुग-पब्लिक-विद्यालययोः) भव्यस्य सछात्रपथसंचलनस्य निरीक्षणं कृत्वा संचलनसम्मानं स्वीकृतवती। सा अवदत्—
“एषा रिङ्गः केवलं जय-पराजयस्य क्षेत्रं नास्ति, अपि तु उत्तराखण्डस्य भाविनाम् ओलम्पिक-तारकाणां निर्माणस्य आधारशिला अस्ति।”

रिङ्गे स्पन्दनम् — प्रथमे दिने एव क्रीडकैः पराक्रमः प्रदर्शितः
प्रतियोगितायाः प्रथमे दिने एव द्विषष्टि (६२) द्वन्द्वयुद्धे लक्ष्येन क्रीडकैः रिङ्गे स्वेदः विसृष्टः। त्रयोदश भारवर्गेषु मुष्टियुद्धकानां मध्ये तकनीक-कौशलस्य शारीरिक-क्षमतायाश्च तीव्रा स्पर्धा दृष्टा। बालक-वर्गे (४४–४६ कि.ग्रा.) उद्घाटन-स्पर्धायां देहरादून-दलस्य मुष्टियुद्धकेन पिथौरागढ़-दलस्य विरुद्धं तकनीकी-श्रेष्ठतया विजयः प्राप्तः।

बालिका-वर्गस्य प्रथमे एव चक्रे चम्पावत-जनपदस्य क्रीडिकया पौड़ी-जनपदस्य क्रीडिकां पराजित्य स्वदलस्य विजय-लेखं उद्घाटितम्। कोटद्वार-आवासस्य क्रीडकैः स्वगृहक्रीडाभूमौ उत्कृष्ट-कार्यविजय: सम्पाद्य स्वोत्तरदायित्वं सुदृढीकृता।
अद्य सम्पन्नेषु एकविंशतिः (२१) प्रथमपूर्वान्त्यचक्रे तथा पञ्चदश (१५) द्वितीयपूर्वान्त्यचक्रे देहरादूनं, कोटद्वारं, पिथौरागढ़:, पौड़ी, टनकपुरं, उधमसिंह-नगरं तथा काशीपुरं इत्यतेषां जनपदानां वीराः मुष्टियुद्धकाः अग्रिम-चरणं प्रति प्रस्थिताः।
अस्यां मुष्टियुद्ध-महाकुम्भ-प्रतियोगितायां अतिथिरूपेण प्रेमा-खन्तवालवर्या (पार्षदः पदमपुरं), सुनीता-देवी (महिला-जिला-अध्यक्षा, अनुसूचित-मोर्चा, भाजपा), इन्दु-खन्तवालवर्या (पार्षदः बालासौड:), किरण-काला (पार्षदः मानपुरं), सिमरन-बिष्ट: (अध्यक्षा महिला-भाभर-मण्डलं, कोटद्वारं), आशीष-रावत: (अध्यक्षः भाभर-मण्डलकोटद्वारं), गिरिराजसिंह-रावत: (प्रधानाचार्यः, बाल-भारती-पब्लिक-विद्यालयः), गोपालसिंह-खोलिया (महासचिवः, उत्तराखण्ड-मुष्टियुद्ध-संघः), डी.सी. भट्ट: (अन्ताराष्ट्रीय-प्रशिक्षकः), देवेन्द्रसिंह-जीना (अन्ताराष्ट्रीय-मुष्टियुद्ध-निर्णायक:), जोगेन्द्रसिंह-बोरा (अन्ताराष्ट्रीय-निर्णायक:), सुनील-रावत: (अन्ताराष्ट्रीय-पादकन्दुक-प्रशिक्षक:), जयवीर-रावत: (जिला-क्रीडाधिकारी), कै. देवीचन्दः (पूर्व-एशियन-रजत-पदक-विजेता, दक्षिण-एशियन-स्वर्ण-पदक-विजेता), प्रजापति-कुकरेती (प्रशासनिक-अधिकारी), रितेश-अधिकारी (अध्यक्षः, जिला-मुष्टियुद्ध-संघः, पौड़ी), जयदीप-नौटियाल: (उपाध्यक्षः), जगत्-राणा (कोषाध्यक्षः), कमलसिंह-नेगी (सचिवः एवं विधायक-प्रतिनिधिः), अमित-नेगी (सहसचिवः), आनन्द-नेगी तथा धीरेन्द्रसिंह-कण्डारी (वरिष्ठ-क्रीडाप्रेमिणौ), विनोद-पन्तः, सिद्धार्थ-रावतः च अन्ये बहवः क्रीडाजगतः दिग्गजाः उपस्थिताः आसन्।
क्रीडकानां मनोबल-वर्धनार्थं अन्ताराष्ट्रिय-स्तरस्य विभूतयः अपि उपस्थिताः। एतैः सह जिलाक्रीडाधिकारी जयवीर-रावतः, क्रीडास्थल-प्रभारी श्यामसिंह-डांगी-महोदयः तथा क्षेत्रस्य प्रमुखाः जनप्रतिनिधयः आगत्य क्रीडकानां उज्ज्वल-भविष्याय शुभाशिषः प्राददुः। प्रतियोगितायाः मीडिया-प्रभारी शिवम-नेगी-महोदयेन सूचितं यत् आगामिद्विदिनयोः पूर्वान्त्यचक्रस्य च अन्त्यचक्रस्य क्रीडा: अत्यन्तं रोमाञ्चकाः भविष्यन्ति, येषु प्रदेशस्य श्रेष्ठानां कनिष्ठ-मुष्टियुद्धकानां चयनं भविष्यति।







