केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति।
आचार्य: शिष्यस्य जिह्वाग्रे सुवर्णमुद्रया हरि: श्री:गणपतये नमः इति सरस्वतीमन्त्रं लिखित्वा उरुल्यां (वर्तुलकांस्यपात्रे) तं अनामिकया51संस्कृत/कैरली सवर्णानि (अक्षराणि)प्रत्येकं लेखयति।

केरले विजयदशमी विद्यारम्भदिनरूपेण आचरति। आचार्य: शिष्यस्य जिह्वाग्रे सुवर्णमुद्रया हरि: श्री:गणपतये नमः इति सरस्वतीमन्त्रं लिखित्वा उरुल्यां (वर्तुलकांस्यपात्रे) तं अनामिकया51संस्कृत/कैरली सवर्णानि (अक्षराणि)प्रत्येकं लेखयति।कटपयादिपद्धत्यां हरि:28, श्री:2,ग3,ण5,प1,त6,ये1,न0,म:5,इति गृह्णाति चेद् आहत्य 51सिद्ध्यति।ह8रि:2इति पृथक् कृत्वा गणयति चेद् वर्णानां संख्या आहत्य 33इति सिद्ध्यति।अनेन त्रयस्त्रिंशत्कोटिदेवतासङ्कल्प:,3+3=6=अनेन मूलाधारस्वाधिष्ठानमणिपूरकानाहताज्ञाविशुद्धिचक्राणि संसूचयति।एतत्सर्वं अन्ततोगत्वा अद्वैतबोधं दृढीकरोति। उक्तं च शङ्कराचार्येण प्रपञ्चसारनामके तन्त्रग्रन्थे द्वितीयाद्ध्याये53तमश्लोकेन___
स्वराख्य: षोडश: प्रोक्ता:
स्पर्शाख्य: पञ्चविंशति:।
व्यापकाश्च दशैते स्यु:
सोमेनाग्न्यात्मक: क्रमात्।।
सोमशब्देन स्वराणि षोडश कला:,इन: =सूर्य: व्यञ्जनानि25कादिमकारपर्यन्तं तथा अग्निस्वरूपेण य,व,र,ल,श,ष,स,ह,ळ,क्ष एते व्यापकाश्च सूच्यन्ते।
अक्षरमित्युक्ते अकारादिक्षकारपर्यन्तं अक्षरम्।।
അ ആ ഇ ഈ ഉ ഊ ഋ ൠ ഌ ൡ എ ഐ ഒ ഔ അം അ:
ക ഖ ഗ ഘ ങ
ച ഛ ജ ഝ ഞ
ട ഠ ഡ ഢ ണ
ത ഥ ദ ധ ന
പ ഫ ബ ഭ മ
യ ര ല വ
ശ ഷ സ ഹ ള ക്ഷ
स्वराक्षराणि ।
*अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः*
व्यञ्जनाक्षराणि ।
*क ख ग घ ङ*
*च छ ज झ ञ*
*ट ठ ड ढ ण*
*त थ द ध न*
*प फ ब भ म*
*य र ल व श ष स ह ळ क्ष*