दीपावलि:–२०२५ अवसरकाले उत्तराखण्ड–ज्योतिषरत्न: आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य बहुप्रतीक्षितः निर्णायकः वक्तव्यः प्रकाशितः ॥
देशस्यान्येषु प्रदेशेषु दीपावलिपर्व २० अक्टूबरे, उत्तराखण्डे तु २१ अक्टूबरे एव शास्त्रसम्मतमिति आचार्य–दैवज्ञः।

देहरादूनात्। दीपावलिपर्वणः कालः २० अक्टूबरो वा २१ अक्टूबरो वा इति विषये राष्ट्रस्य विद्वज्जनेन सामाजिकमाध्यमेषु प्रवृत्ते विवादे उत्तराखण्ड–ज्योतिषरत्न:–आचार्य:–डॉ० चण्डीप्रसादघिल्डियाल: “दैवज्ञ:” इत्यस्य निर्णायकः अभिप्रायः प्रकाशितोभवत्।
ते अवदन् यत्— “पर्वनिर्णयः धर्मशास्त्रस्य विषयः, कालगणना तु ज्योतिषशास्त्रस्य विषयः।”
सूर्योदय–सूर्यास्तयोः देशान्तरभेदेन भारतदेशे एव एकघटीपर्यन्तं (३०–५० निमेषपर्यन्तं) कालभेदः दृश्यते। अतः विभिन्ननगराणां अक्षांश–देशांशभेदेन पर्वनिर्णयस्य एकरूपता न सम्भवति।
सौरविशेषज्ञ:–आचार्य:–डॉ० चण्डीप्रसाद:–”दैवज्ञ:” अवदत् यत् काशी–विद्वत्परिषद्–नामकसंस्था स्थानीयकालगणनां कृत्वा शास्त्रप्रमाणेन २० अक्टूबरतथौ दीपावलिं मननीयामिति निर्णयं दत्तवती। अन्यप्रदेशीय–परिषदः अपि देशकालगणनां दृष्ट्वा केचन २० अक्टूबरं, केचन २१ अक्टूबरं च स्वीकुर्वन्ति।
अत्यन्तसटीक–भविष्यवाणिषु प्रसिद्धः आचार्य–दैवज्ञः कथयति यत् उत्तराखण्ड–गढ़वालमण्डल–प्रदेशीय–पञ्चाङ्गाः अक्षांश २६°३०’–२९°३०’ आधारेण निर्मीयन्ते, येषां कालः “रेल्वे–टाइम” इत्यस्मात् १०–१८ निमेषान्तरयुक्तः अस्ति।
अतः अस्मिन् प्रदेशे सर्वे पर्वणि एककाले एव आचर्यन्ते।
अस्मिन् वर्षे (२०२५) २० अक्टूबर–२१ अक्टूबर–उभयदिनेऽपि अमावास्या तिथिः।
अतः प्रश्नः— “लक्ष्मी–पूजनं कदा?”
धर्मशास्त्र–निर्णयसिन्धु–ग्रन्थानुसारं महालक्ष्मी–पूजनं दीपोत्सवश्च प्रदोष–व्यापिनी–अमावास्यायां निशीथ–काले एव करणीयौ।
विद्वज्जनानां कर्तव्यं लोकानां मार्गदर्शनम् इति।
—
॥ धर्मशास्त्र–सम्मतः निर्णयः ॥
जनमानसे राजगुरु: इत्युपाध्या प्रसिद्धः आचार्य:–डॉ० चण्डीप्रसाद–”दैवज्ञ:” निर्णायकं निर्णयं ददाति —
सर्वेभ्यः प्रायः २१ पञ्चाङ्गेभ्यः प्रमाणमादाय ते वदन्ति— २० अक्टूबरे चतुर्दशी–तिथिः अपराह्णे ३:४५ पर्यन्तं समाप्ता, ततः परं अमावास्या प्रदोष–कालं व्याप्नोति, निशीथ–कालं च व्याप्नोति, २१ अक्टूबरे सायं ५:५५ पर्यन्तं तिष्ठति, सूर्यास्तः तत्र ५:३५ वेला इति निश्चितम्।
अतः उभयदिने प्रदोष–कालेऽमावास्या अस्ति इति।
—
॥ निर्णयसिन्धोः प्रमाणानि ॥
“प्रदोषसमये लक्ष्मीं पूजयित्वा ततः क्रमात्।
दीपवृक्षाश्च दातव्या: शक्त्या देवगृहेषु च।।
कार्तिके मास्यमावास्यां तस्यां दीपप्रदीपनम्।
शालायां ब्राह्मण: कुर्यात् स गच्छेत् परमं पदम्॥”
दर्श–अमावास्या प्रदोष–कालादारभ्य अर्द्धरात्रिपर्यन्तं यत्र तिष्ठति, सा श्रेष्ठा।
यदि रात्र्यन्तं न स्यात्, प्रदोष–व्यापिनी–तिथिः ग्राह्या।
प्रदोष–कालः लक्ष्मी–पूजनाय अधिकबलवान् इति।
यदि उभयदिने अमावास्या–सन्निपातः स्यात्, तर्हि कृष्णपक्षे चतुर्दशी–विद्धाया अपि, प्रतिपदा–संयुक्ता–अमावास्या श्रेष्ठा — या २१ अक्टूबरे एव भवति।
तथा—
“यस्य य: कालस्तत्कालव्यापिनी तिथि:। तया कर्माणि कुर्वीत ह्रासवृद्धि: न कारणम्॥ (बृहद्–याज्ञवल्क्यस्मृति:)
या तिथिं समनुप्राप्य उदयं याति भास्कर:।
सा तिथि: सकला ज्ञेया स्नानदानजपादिषु॥ (देवल–स्मृति:)”
“प्रदोषोऽस्तमयादूर्ध्वं घटिकाद्वयमिष्यते।”
अर्थात् सूर्यास्तानन्तरं द्वे घटिके यत्र तिथि: तिष्ठति, सा प्रदोष–व्यापिनी इति।
धर्मसिन्धु–निर्णयानुसारं यदि उभयदिने प्रदोषेऽमावास्या दृश्यते तर्हि परा–तिथिः ग्राह्या इति (अस्तोत्तरं घटिकाधिक–रात्रि–व्यापिनी–दर्शे सति न सन्देहः)।
—
धर्मशास्त्र–प्रमाणानि निर्दिश्य उत्तराखण्ड–ज्योतिषरत्न–आचार्य–”दैवज्ञ:” अवदत्—
अक्षांश–देशांशयोः भेदेन पूर्व–उत्तर–प्रदेश–प्रदेशेषु दीपावलिः २० अक्टूबरे आचर्या योग्याऽस्ति,
किन्तु पश्चिम–उत्तर–प्रदेशे, गढ़वाल–कुमायूँ–प्रदेशयोः च २० अक्टूबरे लघु–दीपावली तथा
२१ अक्टूबरे सायं ५:३५–८:१४ पर्यन्तं प्रदोष–काले महालक्ष्मी–पूजनं दीपोत्सवश्च आचरितव्यः —
एवमेव शास्त्रसम्मतं निर्णयं दत्तम् इति।


