संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डऋषिकेश

योगोपलब्धिषु पित्रा सह पुत्रोपि सार्थक:

राकेशकण्डवाल: सार्थककण्डवाल: राष्ट्रीयस्तरे चयनितौ

ऋषिकेश:।उत्तराखण्डयोगासनखेलसंघद्वारा ऋषिकेशे आयोजिते राज्यस्तरीययोगासनप्रतियोगितायां पितृपुत्रयो: युगल: राष्ट्रीयस्तरे चयनित: । तौ स्वस्ववर्गेषु पदकानि प्राप्य राष्ट्रियस्तरस्य चयनं सुनिश्चितं कृतवन्तौ । 21 दिनांके हरिद्वारस्य सांसद्-श्रीरमेशपोखरियालनिशंकद्वारा राज्यस्तरीययोगासन- प्रतियोगिताया: उद्घाटनं कृतं । https://youtu.be/fq3OTvppOSw?si=beKC6do-VCFDYMZp
योगस्य महत्त्वं योगासनक्रीडायाः महत्त्वं च श्रीनिशंकद्वारा क्रीडकेभ्य: विशेषं वक्तव्यं दत्तम्।
ऋषिकेशे राकेशकण्डवाल: सार्थकण्डवाल: पदकं सम्प्राप्य सम्मानितौ अपि अभवताम् ।

योगक्षेत्रे राजकीयवरिष्ठमाध्यमिकविद्यालयस्य काण्डाखालस्य शिक्षकः राकेश-कण्डवालः, तस्य पुत्रः सार्थक-कण्डवालः च कोरोना-कालात् आरभ्य अनेकेभ्य: जनेभ्य: योग-प्रशिक्षणं निरन्तरं दत्तवन्तौ, एतत् एव न, उभौ अपि स्व-स्व-क्षेत्रेषु गिनीज-विश्वोपलब्धिषु अंकनं अपि कृतवन्तौ । जिलास्तरस्य राकेशकण्डवाल: योगमहासंघस्य अन्तर्गतं पौडीजनपदस्य संयोजकम् अपि भूत्वा राज्यस्तरस्य राष्ट्रियस्तरस्य च विद्यालयस्य छात्राणां सहभागिताम् अकरोत्, तस्य पुत्रः सार्थककण्डवालः अपि अस्य कृते सर्वोत्तमछात्रस्य सम्मानं प्राप्तवान् अस्ति २०२२ तमस्य वर्षस्य उपलब्धिषु स: सर्वश्रेष्ठछात्रेषु सम्मानं प्राप्तवान् । ‘डिस्कवर24न्यूज उत्तराखण्ड’ इत्यनेन “उत्तराखण्डगौरवरत्नपुरस्कार 2022” इत्यनेन सार्थक: सम्मानितोभवत् ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button