संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तराखण्डदेहरादूनसंस्कृत भारती

•आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका। •संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। •देहरादूने संस्कृतभारत्या: विशालजनपदसम्मेलनं सम्पत्स्यते।

।।संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला:।।

।देहरादूनं।आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते । संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं संस्कृतभारती सततं संलग्ना वर्तते । भारतीयसंस्कृतेः मूलतत्त्वानि ज्ञातुं संस्कृतभाषा एव सहायिका विद्यते । अस्यां श्रृंखलायां संस्कृतभाषां जनभाषां कर्तुं तथा संस्कृतभाषायाः प्रचाराय प्रसाराय च संस्कृतभारतीद्वारा सम्पूर्णभारतदेशे काले काले विविधकार्यक्रमाः समाचर्यन्ते। संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला: सन्ति। अधुना स्थाने स्थाने संस्कृतप्रभावं जनयितुं महत्त्वं प्रदर्शयितुं जनपदसम्मेलनानि सर्वत्र सञ्चाल्यमाना: भवन्ति।
एतस्मिन् क्रमे संस्कृतभारतीद्वारा उत्तराखण्डे अपि जनपदश: सम्मेलनं विधीयते। एकदिवसीयस्य जनपदसम्मेलनस्य आयोजनं संस्कृतभारतीदेहरादूनद्वारा अपि भव्यस्तरे
नगरनिगमसभागारे (टाउनहॉल) देहरादूने विक्रमसंवत्सरे 2080 कार्तिकमासे कृष्णपक्षे अष्टमीतिथौ रविवासरे 05 नवम्बर 2023 दिनांके 9:30 वादने विशालजनपदसम्मेलनं
समारभ्यते । यत्र संस्कृतबप्रेमीबान्धवानाम् उपस्थितिः प्रार्थनीया वर्तते। अस्मिन् जनपदसम्मेलने श्री सञ्जुप्रसादध्यानी (प्रान्तमंत्री) , डॉ. प्रदीपसेमवाल: (जनपदमंत्री), श्री नागेन्द्रव्यासः , श्री माधवपौडेलः , डॉ. नवीनजसोला , डॉ. आनन्दजोशी, डॉ.राजेशशर्मा , डॉ. अनुमेहा जोशी आदय: वरिष्ठा: श्री योगेशकुकरेती धीरजबिष्ट: पदाधिकारिण: कार्यकर्तार: एवं च विशेषसौजन्ये (“पुरानी पेंशन बहाली राष्ट्रीय आंदोलन “) इत्यस्य उत्तराखण्डराज्यस्य प्रान्तीयसंयुक्तमंत्री पुष्करराजबहुगुणा कार्यक्रमं विधास्यन्ति।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button