संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
गुजरात

जन्मदिवसोपलक्ष्ये Online संस्कृतशिक्षणम् आमुखपटलसमूहे आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता

संस्कृत समाचार।वार्ताहर:-अमित-ओली।
Online संस्कृतशिक्षणम् आमुखपटलसमूहे जन्मदिवसोपलक्ष्ये आयोजिताया: संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: परिणामस्य घोषणा जाता। गतदिवसे शनिवासरे उत्तरप्रदेशात् डायट-व्याख्याता डॉ. परशुरामतीवारीवर्यस्य पुत्रस्य ‘धर्म:’ इत्यस्य जन्मदिवसोपलक्ष्ये एका-विशेषा-प्रतियोगिताया: आयोजनम् अभवत् ।
संस्कृतप्रश्नोत्तरीप्रतियोगितायामस्यां राजस्थानत: राजेशयादव: प्रथम-स्थानं प्राप्तं कृतवान्, द्वितीयं स्थानं गौतमकुमार: दवे गुजरातत:, तृतीय-स्थाने च उत्तरप्रदेशत: दीप्तिसिंह: वर्तते। प्रतियोगिताया: पुरस्कार-प्रायोजक: उत्तरप्रदेशात् डायट-व्याख्याता डॉ. परशुरामतिवारी एवं शिक्षिका श्रीमती प्रतिभा मणि: तिवारी, आयोजकश्च गुजरातत: राष्ट्रियसंस्कृतप्रचारक: जगदीशडाभी आसीत्। ध्यातव्यं वर्तते यद् “Online संस्कृतशिक्षणम्” इत्यामुखपटलसमूहेन प्रतिरविवासरे ऑनलाइन-संस्कृत-प्रश्नोत्तरी-प्रतियोगिताया: आयोजनं क्रियते। पुरस्कार-प्रायोजक: डॉ. परशुरामतिवारी सर्वेभ्यो: विजेतृभ्यो: पुरस्कारं दास्यति । तेन सह उत्तराखंडात् संस्कृत रसास्वाद: संस्था विजेतृभ्यो: प्रमाणपत्रं प्रदास्यति ।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button