संस्कृतसमाचारद्वारा हार्दा: शुभकामना:
उत्तरप्रदेशमध्यप्रदेश

✓संस्कृतम् अद्यापि यथा अक्षुण्णम् अस्ति तथा स्थिरम् अस्ति। ✓संस्कृतं परिष्कृतम् अभवत् प्रदूषित: न अभवत्। ✓दास्यमानसिकानां संस्कृतद्वेष:-“प्रधानमंत्री मोदी”

चित्रकूट: । श्री तुलसीपीठसेवा न्यासः चित्रकूटस्थ जानकीकुण्डस्थ धार्मिकसमाजसेवासंस्था अस्ति। तुलसीजयन्त्यां, १९८७ तमवर्षे गुरुद्वारा संस्थाया: स्थापना कृता। तुलसीपीठः भारते विश्वे च हिन्दुधर्मविषयेषु साहित्यस्य प्रमुखप्रकाशकेषु अन्यतमः अस्ति ।

अयोध्यायां राममन्दिरनिर्माणं शीघ्रमेव भविष्यति अस्य निर्माणे जगद्गुरुरामभद्राचार्यस्य योगदानस्य प्रशंसनीयं वर्तते इति मध्यप्रदेशस्थ चित्रकूटे जगद्गुरुरामभद्राचार्यस्य तुलसीपीठे सार्वजनिकसमारोहे मोदी सभायाम् उक्तवान्। तेनोक्तं यत् “अष्टाध्यायी भारतस्य भाषाविज्ञानस्य, भारतस्य बौद्धिकतायाः, अस्माकं शोधसंस्कृतेः च सहस्रवर्षपुरातनग्रन्थः अस्ति। एकस्मिन् सूत्रे कथं व्यापकं व्याकरणं समावेशयितुं शक्यते, भाषा कथं संस्कृतविज्ञाने परिणतुं शक्यते अस्य महर्षिपाणिनि: इत्यस्य सहस्रवर्षपुराणी सृष्टिः प्रमाणम् अस्ति” । एतेषु वर्षसहस्रेषु जगति कति भाषाः आगताः गताश्च, पुरातनभाषाणां स्थाने नूतनाः भाषाः आगताः परन्तु अस्माकं संस्कृतम् अद्यापि यथा अक्षुण्णम् अस्ति तथा स्थिरम् अस्ति। संस्कृतं परिष्कृतम् अभवत् किन्तु प्रदूषितः न अभवत्।” दासत्वस्य सहस्रवर्षेषु भारतस्य संस्कृतिं धरोहरं च उत्थापयितुं प्रयत्नः कृतः। जना: दास्यमानसिकता युक्ताः संस्कृतं द्वेष्टि। संस्कृतस्य प्रचारार्थं विगतनववर्षेषु अनेके प्रयत्नाः कृताः।

जगद्गुरुरामभद्राचार्यस्य एवं प्रधानमन्त्रिण: द्वयो: बहुसमयं यावत् अत्यन्तभावुकालिंगने अद्भुतक्षणम् आसीत्। प्रधानमन्त्रिणा कथितं यत् प्रत्येकस्य देशवासिनः स्वप्नानां पूर्तये रामभद्राचार्यस्य महती भूमिका आसीत् । श्री राममन्दिरः, यस्य कृते भवता न्यायालयस्य अन्तः बहिश्च एतावत् योगदानं कृतम्, सः अपि सज्जः भवितुम् अर्हति। तत्र समुपस्थिताः नेतारः अस्मिन् विषये प्रसन्नतां प्रकटयित्वा जयजयकारं कृतवन्तः।

अवसरेस्मिन् प्रधानमन्त्रिणा रामभद्राचार्यद्वारा लिखितानां
त्रिपुस्तकानां ‘अष्टाध्यायी भाष्य’, ‘रामानन्दचार्य चरितम्’ तथा ‘भगवान श्री कृष्ण की राष्ट्रलीला’ इत्येषां विमोचनं कृतं ।
अवसरेस्मिन्नपि प्रधानमन्त्री मोदी चित्रकूटविकासस्य नूतनानि ऊर्ध्वतानि स्पृशति इति विश्वासं प्रकटितवान्। ततः पूर्वं मोदी प्रसिद्धे रघुवीरमन्दिरे प्रार्थनां कृत्वा काञ्चमन्दिराणां दर्शनं कृतवान्।

एतस्मिन् समये सः “अरविन्दभाई मफतलाल ” इत्यस्य पत्रालयचीटिकापि अवमोचितवान् ।मोदी उक्तवान् यत् मफतलालः भूमिसम्बद्धः व्यक्तिः आसीत् यः निःस्वार्थतया निर्धनानाम् कल्याणाय कार्यं करोति स्म। सः देशस्य प्रथमं पेट्रोकेमिकलसङ्कुलं उद्घाटितवान् । कृषिक्षेत्राय, निर्धनानाम् उत्थानाय च तस्य कार्यं प्रशंसनीयम् आसीत् ।

चित्रकूटस्य काञ्चमन्दिरे अपि मोदी अद्भतमन्दिरेषु प्रार्थनां कृतवान् । यत्र कांच मन्दिरे राघवसत्संगभवनेन सह चित्रकूटविहारी, विहारिणीमन्दिरं (भगवान् रामः, देवी सीता च) अपि अत्र विराजन्ते । एतत् त्रिशिखरयुक्तं मन्दिरम् अस्ति । गर्भगृहे एव भगवतः श्रीरामस्य, सीतास्य, लक्ष्मणस्य च उत्तमा: मूर्तय: स्थापिताः सन्ति, येषां सेवा नित्यं पुरोहितेन क्रियते।

संस्कृत समाचार

उत्तराखण्डस्य प्रथमान्तर्जालीयं संस्कृतसमाचारपत्रं - "संस्कृत समाचार"

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button